________________
५९८
कातन्त्रव्याकरणम्
८८. णस्वराघोषेभ्यो वनोर च एभ्यो विहिताद् वन ईर्भवति रश्चान्तस्य । वनिप्, ओण-अवावरी । शृ- शर्वरी । क्वनिप् - धीवरी, पीवरी, सहकृत्वरी, बहुदृश्वरी । एभ्यः इति किम् ? राजयुध्वा राज्ञी ।। ८८।
८९. वा बहुव्रीही बहुव्रीहौ पूर्वो विधिर्वा भवति । बहुधीवरी, बहुधीवा । नान्तो डान्तश्च स्यात् । णादिभ्य इत्येव । बहुसहयुध्वा राज्ञी ।। ८९ ।
९०. वा मन्- बहुव्रीह्यनो डा मनन्ताद् बहुव्रीहावनन्ताच्च डाप्रत्ययो भवति वा । सीमे, सीमाः, सीमानौ, सीमानः । सुपर्वे, सुपर्वाः, सुपर्वाणौ, सुपर्वाणः । बहुराजे, बहुराजाः, बहुराजानौ, बहुराजानः । बहुराज्ञीत्यपि स्यात् । वाग्रहणमुत्तरत्र नित्यार्थम् ।। ९०।
९१. यूनस्तिः यूनः प्रधानात् स्त्रियां तिर्भवति । युवतिः। प्रधानादिति किम् ? प्रिययुवा स्त्री ।।९१।
९२. नृजातेरुतोऽनध्वर्योरू अध्वर्युवर्जितादुकारान्तान्मनुष्यजातिवचनात् स्त्रियामूङ् भवति । कुरूः, ब्रह्मबन्धुः । जातिवचनाद् बहुव्रीहावुत्तरपदं बन्धुः पूर्वपदार्थं कुत्सितमाह स्वभावात् । स्त्रीभेदवाचिनो भीरोरप्यूडा भवितव्यमिति मतम् । श्रीकण्ठपुरुषोत्तमयोरपि मतमेतत् । 'विहर मया सह भीरु काननानि' (वा० रा०५/२०/३६) इति शिष्टप्रयोगश्च दृश्यते । नृग्रहणं किम् ? करेणुः स्त्री । जातेरिति किम् ? वृकाद् भीरुः स्त्री । अनध्वोरिति किम् ? अध्वर्युर्ब्राह्मणी | चरणत्वाज्जातिर्मनुष्ये चास्य रूटिः ||९२।।
९३. जातावप्राणिरज्ज्वादिभ्यः जातौ वर्तमानादुकारान्तात् प्राणिरज्ज्वादिवर्जितादू भवति । कर्कन्धूः, अलाबूः । प्राणिनिषेधः किम् ? ओतुः, कृकवाकुः । रज्ज्चादिनिषेधः किम् ? रज्जुः, कङ्गः, हनुः, प्रियगुः । उणादौ बिन्ध्यवासिनो मते, गोवर्द्धनाधिमते च कर्कन्धूरूदन्ता प्रकृत्यैव, तदा