________________
परिशिष्टम्-१
५९९ निष्कर्कन्धूः । पञ्चभिः कर्कन्धूभिः क्रीतः पञ्चकर्कन्धूरिति न ह्रस्वः स्त्रीप्रत्ययस्य लुग् नास्तीति भेदः । कथंचित् प्राणिवृत्तौ ‘कार्कन्धवः' इति एयण्णपि नास्ति ।। ९३।
९४. बान्तकद्रुकमण्डलुभ्यः संज्ञायाम् एभ्यः संज्ञायां स्त्रियामूङ् भवति । मद्रबाहूः, कद्रूः, कमण्डलूः । सञ्ज्ञायामिति किम् ? सुबाहुः स्त्री, कद्रुर्जटा ||९४|
९५.उपमानसहितसंहितसहशफरामलक्ष्मणपूर्वादूरोः उपमानादिपूर्वपदादूरोरूङ् भवति । करभोरूः, रम्भोरूः, सहितोरूः, संहितोरूः, सहोरूः, शफोरूः । रामोरूः, लक्ष्मणोरूः । एभ्योऽन्यत्र - पीनोरुः स्त्री ।।९५।
९६. श्वशुरस्योदन्तलोपश्च श्वशुरस्य स्त्रियामूङ् भवति, उकारस्यान्तस्य च लोपो भवति । श्वश्रूः ।।९६ ।
९७. पङ्गोः पङ्गोः स्त्रियामूङ् भवति । पङ्गेः ।। ९७।
९८. गोत्रेऽणिणोर्बहुस्वरादनृषेणुरूपान्त्याद् यङ् बहुस्वरादृषिवर्जिताद् गुरूपान्त्यात् परयोः पौत्रादावणिणोः स्त्रियां यङ् भवति । अण् – श्वाफल्कस्यापत्यं श्वाफल्कः, स्त्री चेत् श्वाफल्क्या । इण् - वराहस्यापत्यं वाराहिः, स्त्री चेद् वाराह्या । गोत्र इति किम् ? श्वफल्कस्येयं श्वाफल्की । बहुस्वरादिति किम् ? दाक्षी । अनृषेरिति किम् ? वाशिष्ठी । गुरूपान्त्यादिति किम् ? औपगवी । उपान्त्यत्वमिह स्वरापेक्षयैव ।।९८।
९९. मुखरादेश्च मुखरादेश्च गोत्रेऽर्थेऽणिणोः स्त्रियां यङ् भवति । मुखरस्यापत्यं मौखर्या, पुणिकस्यापत्यं पौणिक्या, गुणिकस्यापत्यं गौणिक्या । लघूपान्त्यार्थम् ।। ९९।
१००. क्रौड्यादिभ्यश्च क्रौड्यादिभ्यश्च स्त्रियां यङ् भवति । क्रौडेः क्रौड्या, नाडेः नाड्या, व्याडे: व्याड्या, आपिशले: आपिशल्या । देवदत्तिप्रभृतयोऽपीह पठ्यन्ते । प्रथमापत्यार्थं दैवदत्त्या, याज्ञदत्त्यादयः ।। १००।
१०१. भोजात् क्षत्रियायाम् भोजात् क्षत्रियायां यङ् भवति । भोज्या । तद्धितत्वादकारलोपः ।।१०१।