________________
६००
कातन्त्रव्याकरणम्
१०२. काण्ठेविद्ध्यादिभ्यो वा
काण्ठेविद्धिप्रभृतिभ्यः स्त्रियां यङ् भवति वा । पक्षे इनन्तादीप्रत्ययः । काण्ठेविद्ध्या, काण्ठेविद्धी ।दैवयज्ञ्या, दैवयज्ञी । शौचिवृक्ष्या, शौचिवृक्षी । सात्यमुख्या, सात्यमुखी ।। १०२ । १०३. न पुत्रपत्योस्तत्पुरुषे
अनयोस्तत्पुरुषे य न भवति । श्वाफल्कीपुत्रः, श्वाफल्कीपतिः । प्रधानस्यैवोत्तरपदयोरेवायं निषेधः । इह स्यादेव - अभिश्वाफल्क्यापुत्रः, अभिश्वाफल्क्यापतिः, श्वाफल्क्यापुत्रधनम्, श्वाफल्क्यापतिग्रामः ।। १०३ । १०४. बन्धौ बहुव्रीहौ
बहुव्रीहौ बन्धुशब्दे परे यङ् न भवति । श्वाफल्कीबन्धुः, वाराहीबन्धुः ।। १०४ । १०५. वा मात - मातृ - मातृकेषु
बहुव्रीहावेषु यङ् वा भवति । श्वाफल्क्यामात, श्वाफल्कीमात । इह ऋदादेरदादिश्यते - श्वाफल्क्यामातृभिः श्वाफल्कीमातृभिः । द्वयोरुपादानादिह समासान्तविधिरनित्यः। श्वाफल्क्यामातृकः, श्वाफल्कीमातृकः ।। १०५ ।
॥ इति महामहोपाध्याय श्री श्रीपतिदत्तविरचितायां कातन्त्रपरिशिष्टवृत्तौ स्त्रीत्वप्रकरणं समाप्तम् ॥