________________
५९४
कातन्त्रव्याकरणम्
६०. नित्यं क्तादल्पत्वे करणपूर्वात् क्तान्तात् नित्यम् ईर्भवति अल्पत्वे । सूपलिप्ती पात्री, अभ्रलिप्ती द्यौः, अल्पसूपा | अल्पाभ्रा इत्यर्थः । इह नित्यग्रहणबलात् स्त्र्यादन्तेनापि समासे ह्रस्वः, पश्चादी: । अल्पत्व इति किम् ? ओदनपूर्णा स्थाली ।।६०।
६१. स्वाङ्गादकृतमितजातप्रतिपन्नाद् बहुव्रीहौ स्वाङ्गपूर्वात् क्रीतादिवर्जितात् क्तान्ताद् बहुव्रीहावीर्भवति ।ओष्ठक्षती, केशच्छिन्नी, प्रतिपन्नप्रतिषेधादुपसर्गान्तरायेऽपि - केशविलूनी । जातिकालसुखादीनामिति क्तान्तेन बहुव्रीहिः । स्वाङ्गादिति किम् ? घृतपीता । अकृतादेरिति किम् ? केशकृता, केशमिता, दन्तजाता, स्तनप्रतिपन्ना | बहुव्रीहाविति किम् ? पाणौ धृता पाणिधृता ।।६१।
६२. जातेरनाच्छादनाद् वा आच्छादनवर्जिताज्जातेः परात् क्तान्ताद् बहुव्रीहावीर्भवति वा । वृकदृष्टी, वृकदृष्टा । शुकजग्धी, शुकजग्धा | जातेरिति किम् ? मासभूता । अनाच्छादनादिति किम् ? वस्त्रवसिता । अकृतादेरित्येव - वृक्षकृता । क्तान्तादित्येव-केशप्रिया ||६२ ।
६३. पादः पादो बहुव्रीहावीर्भवति वा । उष्ट्रपदी, उष्ट्रपात्, सुपदी, सुपात् ।। ६३ ।
६४. नाच्च ऋच्यर्थे पाद् ईर्न भवति, आच्च वा भवति । चतुष्पाद् ऋक्, चतुष्पदा च । व्यवस्थया अत्रैव विकल्पो नित्यमन्यत्र । द्विपदा, त्रिपदा ऋक् । इह पदशब्देन सिद्धे दान्तश्रुतिनिवृत्त्यर्थम् आद्विधानम् । समासवाच्यत्वाच्च करणस्य पुनरधिकारत्वादनुवर्तने सति श्रुतत्वम् । स्त्रीत्वमिवाल्पत्वमपि प्रत्ययेन द्योत्यते । ह्रस्व इति आदित्यधिकारान्नित्याधिकारे पुनर्नित्यग्रहणादिति ।। ६४ |
६५. कृञ्चादिभ्यश्च क्रुञ्चादिभ्यश्चाद् वा भवति . व्यवस्थया क्रुङ् देवविशोर्नित्यमिच्छन्ति । क्रुञ्चा, देवविशा, उष्णिहा, उष्णिक्, शरदा, शरत्, विपाशा, विपाट् । दिशा, दिगित्युदाहरन्ति । पुंवद्भावे - देवविड्भार्याः । स्त्रीप्रत्ययलुकि पञ्चक्रुङ् इत्येव इष्यते । कुत एतददन्तत्वे प्रकृतीनामिति ।।६५।