________________
परिशिष्टम् - १
५३. पक्षाच्चोपमानादेः
उपमानपूर्वात् पक्षात् पुच्छाच्च ईर्भवति । श्वपुच्छी, सिंहपुच्छी, शुकपक्षी, काकपक्षी । उपमानादेरिति किम् ? सितपक्षा हंसी । इह स्वाङ्गादिति न स्मरन्ति, तेन गिरिपक्षा शाला || ५३।
५९३
५४. न क्रोडादेः
क्रोडादेः स्वाङ्गादीर्न भवति । सुक्रोडा, सुखुरा । क्रोड-खुर-शफ-बाल-भग-गुदगल-प्रोथ-ग्रीवा । एवमन्येऽपि || ५४ |
५५. सह - विद्यमान - नञश्च
सह-विद्यमान-नञ्पूर्वात् स्वाङ्गादीर्न भवति । सहकेशा, सकेशा, विद्यमानकेशा,
अशा || ५५ |
५६. नखमुखान्नाम्नि
नखमुखात् संज्ञायामीर्न भवति । शूर्पणखा, कद्रुमुखा, कालमुखा, वक्रणखा, गौरमुखा । क्वचिन्नत्रा निर्दिष्टस्यानित्यत्वात् शूर्पणखीत्यपि स्यात् । अप्रधानादिति निवृत्तम् ||५६ |
५७. सूर्याद् दैवते
सूर्याद् देवतायामर्थे ईर्न भवति । सूर्या देवी । पुंयोगात् प्राप्तः । दैवते इति किम् ? सूरी मानुषी || ५७ |
५८. यङश्च
अणिणोरादेशाद् यङश्च ईर्न भवति । श्वफल्कस्यापत्यं स्त्री श्वाफल्क्या । वराहस्यापत्यं स्त्री वाराह्या । निवृत्तो निषेधः || ५८ा ५९. क्रीतात करणादेः
करणपूर्वात् क्रीतादीर्भवति । धनकीती । धनेन क्रीतमिति समासे पश्चात् स्त्रीत्वविवक्षा | 'धनेन क्रीता' इत्यत्र धनक्रीतेति स्यादेव । करणादेरिति किम् ? राजक्रीता । कथं धनेन क्रीता ? पदसंस्कारकाले करणादित्वात् ।। ५९।