________________
५९२
कातन्त्रव्याकरणम्
४६. काण्डादक्षेत्रे काण्डान्तात् तद्धितार्थे द्विगोरक्षेत्रविषये ईर्भवति । षोडशहस्तप्रमाणं काण्डम् , त्रीणि काण्डानि प्रमाणमस्याः त्रिकाण्डी रथ्या । अक्षेत्र इति किम् ? त्रिकाण्डा क्षेत्रभूः | मात्रडर्थे द्विगुः ।।४६।
४७. पुरुषाद् वा पुरुषान्तात् तद्धितार्थे द्विगोरीभवति वा । चतुर्हस्तः पुरुषः, द्वौ पुरुषौ प्रमाणमस्याः द्विपुरुषी, द्विपुरुषा भित्तिः । परिमाणादित्येव - द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा अश्वा ||४७।
४८. स्वाङ्गादप्रधानात् अदन्तादप्रधानात् स्वाङ्गादीर्भवति वा । चन्द्रमुखी, चन्द्रमुखा स्त्री । निष्केशी, निष्केशा सक् (पू:) । भूरिकेशी, भूरिकेशा रथ्या ! चारुमुखी, चारुमुखा प्रतिमा | प्राण्यङ्गं तदाकृतिश्च स्वाङ्गमुच्यते ।। ४८।
४९. नासिकोदराद् बहुस्वरात् बहुस्वरात् स्वाङ्गात् नासिकोदराच्च ईर्भवति वा । तुङ्गनासिकी, तुङ्गनासिका । महोदरा । नियमः किम् ? पृथुजघना, मृदुचरणा ।। ४९ ।
५०.जङ्घोष्ठ - कण्ठ-कर्ण-शृङ्गाङ्गगात्रदण्डात् संयोगोपधात्
संयोगोपधाज्जङ्घादे: ईर्भवति वा । दृढजङ्घी, दृढजङ्घा, बिम्बोष्ठी, बिम्बोष्ठा । कृशकण्टी, कृशकण्ठा । चारुकर्णी, चारुकर्णा । दृढशृङ्गी, दृढशृङ्गा । मृद्वङ्गी, मृद्वङ्गा | सुगात्री, सुगात्रा, सितदन्ती, सितदन्ता । प्रोष्ठीति नित्यं सुमङ्गलादिपाठात् । नियमः किम् ? सुनेत्रा, सुगुल्फा । अन्त्रमिह काश्मीरकः पठति-स्थूलान्त्री, स्थूलात्रा | छगलान्त्री नामौषधिरिति सुमङ्गलादित्वात् ।। ५०।
__५१. पुच्छात् पुच्छादप्रधानादीर्भवति वा । सुपुच्छी, सुपुच्छा । निष्पुच्छी, निष्पुच्छा ।। ५१ ।
५२. नित्यं शर - कबर - विष - मणिभ्यः एभ्यः परात् पुच्छान्नित्यमीर्भवति । शरपुच्छी, कबरपुच्छी, विषपुच्छी, मणिपुच्छी ।। ५२।