________________
परिशिष्टम् - १
३९. चान्द्रभागादनद्याम्
अनद्यामर्थे चान्द्रभागादीर्भवति । चन्द्रभागे भवा चान्द्रभागी द्युतिः । अनद्यामिति किम् ? चन्द्रभागो नाम गिरिः, ततः प्रभवतीति अणि वृद्धिः, चान्द्रभागा नदी ।। ३९ । मामकाद् रूढौ
५९१
४०.
मामकाद् ईर्भवति रूढौ । मामकी देवताभेदः । रूढाविति किम् ? ममेयं मामिका भूः ।। ४० ।
४१. सुमङ्गलादेश्च
सुमङ्गलादेश्च रूढादीर्भवति । सुमङ्गली, केवली, समानी; अवरी । पातेः पःपापी । एवं प्रवृद्धविलूनी, रेचकी, रजस्वली, देवकी, भिक्षुकी प्रव्रजितायाम् । केकयी, रूढावित्येव । सुमङ्गला, केवला, समाना, अवरा, प्रवृद्धविलूना, पापा, रजस्वला । आकृतिगणोऽयम् || ४१ |
४२. गौर - शबल – शारङ्ग – पिशङ्ग – कल्माषात् एभ्य ईर्भवति । गौरी, शबली, सर्तेरङ्गचि वृद्धिरिति वृद्धाः - सारङ्गी । तालव्यादिकमेके मन्यन्ते - शारङ्गी । पिशङ्गी, कल्माषी ।। ४२ ।
४३. तरुणहरिणाभ्यां च
आभ्यां च स्त्रियामीर्भवति । तरुणी, तलुनी च सुरा । हरिणी ज्योत्स्ना । अवयोऽर्थमजात्यर्थं च || ४३ ।
४४. द्विगोः समाहारे
समाहारे द्विगोरदन्तादीर्भवति । पञ्चपूली, पञ्चमाली, पञ्चतक्षी | समाहार इति किम् ? द्विकपाला श्राणा । कथं त्रिफला, त्रीणि फलान्यत्रेति बहुव्रीहिश्चेद् द्विगौ त्रिफला स्यात्, तर्हि संज्ञापूर्वको विधिरनित्यः || ४४ |
४५. परिमाणादसंख्याकालबिस्ताचितकम्बल्येभ्यस्तद्धितलुकि तद्धितलुकि द्विगोरदन्तात् संख्यादिवर्जितात् परिमाणान्तादीर्भवति । द्वाभ्यामाढकाभ्यां क्रीता याढकी, द्विद्रोणी, इकणो लुक् । परिमाणादिति किम् ? त्रिभिरश्वैः क्रीता त्र्यश्वा । संख्यादिनिषेधः किम् ? द्वाभ्यां शताभ्यां क्रीता द्विशता । द्वे वर्षे प्रमाणमस्याः द्विवर्षा, द्विबिस्ता, द्वयाचिता द्विकम्बल्या ||४५ |