________________
५९०
कातन्त्रव्याकरणम्
एभ्य ईर्भवति वा । चण्डी, चण्डा । कृपणी, कृपणा । पुराणी, पुराणा । उदारी, उदारा | कल्याणी, कल्याणा । विशाली, विशाला | विकटी, विकटा । विशङ्कटी, विशङ्कटा । उपाध्यायी, उपाध्याया । साधारणी, साधारणा । येषां साधारणात् स्वार्थे अण् तदन्तादीस्तेषां ‘साधारणीभार्यः' इति पुंवत्त्वप्रतिषेधः । सहायी, सहाया | अबाली, अबाला । शोणी, शोणा | चकारात् 'कमली, कमला' इत्यपीच्छन्ति ।। ३१ ।
३२. श्येतैतहरितलोहितानां तो नश्च एषाम् ईर्भवति वा तत्सन्नियोगे च तकारस्य नकारादेशश्च । श्येनी, श्येता | एनी, एता | हरिणी, हरिता । लोहिनी, लोहिता | नक्षत्रे रोहिणीति रूढम् ।।३२ ।
३३. असितपलितयोः क्नश्च अनयोरीभवति वा, तत्सन्नियोगे च तकारस्य क्नादेशश्च । असिक्नी, असिता । पलिक्नी, पलिता | भाषायामप्ययं विधिरिष्यत एव || ३३ ।
___३४. घटकुम्भात् पात्रे घटकुम्भात् पात्रेऽर्थे च नित्यमीर्भवति । घटी, कुम्भी पात्रम् । अन्यत्र घटा, कुम्भा ||३४|
३५. पिण्डादन्नाङ्गयोः पिण्डादन्नेऽङ्गे चार्थे ईर्भवति । पिण्डी सक्तूनाम् । पिण्डी शरीरस्य । अन्यत्र पिण्डा ।।३५।
३६. स्थलादकर्तृक अकर्तृकऽर्थे स्थलादीर्भवति । स्थली मरुर्धन्वा । स्थलं स्थलीति भागुरिः । अन्या स्थली, या अन्नाद्यर्थं क्रियते । न ह्यकर्तृकोऽवयवीत्यर्थात् कर्तेह मनुष्यो निषिध्यते ।।३६ ।
३७. कबरात् कैश्ये केशसमूहविशेषेऽर्थे कबराद् ईर्भवति । कबरी । अन्यत्र कबरा ||३७।
३८. कालात् कृष्णे कृष्णेऽर्थे कालादीभवति । काली । अन्यत्र काला ||३८ ।