________________
५८९
परिशिष्टम् -१
२२. पुत्रमातामहपितामहेभ्यः एभ्य ईर्भवति । पुत्री, मा भैषीः पुत्रि ! सीते । 'सुतपुत्री । राजपुत्री, सुतदुहिता, राजदुहिता' इति च स्यादेव । अतो न सुतादिभ्यो दुहितुः पुत्रताऽतिदिश्यते । मातामही, पितामही, अपुंयोगार्थमनयोरारम्भः ।।२२ ।
२३. पूरणे डमथेभ्यः पूरणेऽर्थे डमथेभ्यः प्रधानेभ्य ईर्भवति । एकादशी, पञ्चमी, कतिथी ।।२३।
२४. भाजात् पक्वे भाजात् पक्वेऽर्थे ईर्भवति । भाजी, शाकव्यञ्जनभेदः । अन्यत्र भाजा ||२४|
२५. गोणादावपने गोणादावपनेऽर्थे ईर्भवति । गोणी, व्रीह्यादिवपनार्थपात्रान्तरम् आवपनम् । अन्यत्र गोणा ।।२५।
२६. नागात् स्थूले नागात् स्थूलेऽर्थे ईर्भवति । नागी स्थूला | अन्या नागा । कथं नागी काद्रवेयी, नागी करेणुः ? जातित्वात् ।।२६।।
२७. कुशादायसे कुशादयसो विकारेऽर्थे ईर्भवति ।कुशी फालाख्या ।अन्यत्र आयसी कुशेति ।।२७।
२८. कामुकाद् रिरंसौ रिरंसौ मैथुनेच्छौ कामुकादीर्भवति । यूनां कामुकी । अन्यत्र धनस्य कामुका । कथं सुरतस्य कामुका ? इहापीच्छौ कामुकशब्दो वर्तते न तु सुरतेच्छाविति ।।२८।
२९. नीलात् प्राण्योषध्योः नीलादनयोरीभवति । नीली गौः । नीली नामौषधिः । अनयोरिति किम् ? नीला माला (मणिः) । कथं नीला कगुः ? ओषधौ जात्यभिधाने हि विधिः ।।२९।
३०. वा संज्ञायाम् नीलात् संज्ञायाम् ईर्भवति वा । नीली, नीला ।।३०।
३१. चण्ड-कृपण-पुराणोदर-कल्याण-विशाल-विकटविशकटोपाध्याय-साधारण-सहायावाल-शोणेभ्यश्च