________________
५८८
कातन्त्रव्याकरणम्
२०.अण्-एयण-इकण्-नण्-स्नण-क्वरप्षडनुबन्धात् अणाद्यन्तेभ्यः षडनुबन्धाच्च ईर्भवति । अण्-औपगवी, शाङ्गवेरी, कैकेयी, दैवकी, काण्डलावी | चुरा शीलमस्याश्चौरी, तपः शीलमस्यास्तापसी | आभ्यां शीले अण् । एयण - ऐणेयी त्वक् । एण्या एयण् । नादेयी-शेषे नद्यादेरेयण् । इकण - आक्षिकी, औदश्वित्की, धानुष्की । नण् - स्त्रैणी । स्नण् - पौंस्नी । क्वरप् - जित्वरी, नश्वरी । षानुबन्धात् - नर्तकी, खनकी, जल्पाकी, लुण्टाकी । टानुबन्धात्-कफघ्नी, पित्तघ्नी । ईशेरौणादिको वरट - ईश्वरी । कथम् - 'विन्यस्तमङ्गलमहौषधिरीश्वरायाः' । कसिपिषातिवरप्रत्यये स्यादेव | कुरुचरी, मद्रचरी । अनुचरी, सहचरीति नदादित्वादी | तन्त्रान्तरे चरडिति पचादौ पठ्यते ।
खविधौ धेटष्टकारः धेटः खशोऽनुबन्धायेत्यागमः, तेन मुष्टिन्धयी, स्तनन्धयीति यौगिकत्वेऽपि । एवं च धेड्दृशीत्यत्रापि टकारस्यानन्यार्थकत्वाद् उद्धयीति सम्भाव्यते । धेटष्ट्रणः षानुबन्धत्वं तृरार्थम्, तेन नद्धीति । षटोरुपादानमन्योऽन्यस्यानित्यार्थम्, तेन दन्शेः ष्ट्रणि दंष्ट्रा । किंयत्तबहुषु कृअष्टे किङ्करा, यत्करा, तत्करा, बहुकरा । किङ्करीति जातिश्चेत् । तथा युटि पूर्वापहायणा, परापहायणा, सम्परापहायणा । णत्वं चेष्यते प्रधानादित्येव । बहुकुम्भकारा पूः । कथम् आपिशलीया स्त्री, इह प्रोक्तादणो लुगिति ।।२०।
२१. वयस्यनन्तेऽहोडादेः अनन्ते वयसि अहोडादेरदन्तादीर्भवति । कुमारी, किशोरी, कलभी, बर्करी । वधूटी, चिरण्टी । आभ्यां युवतिरभिधीयते । तरुणी । येषां मते खश्विधौ धेटष्टकारस्य सुखनिर्देशः प्रयोजनं तेषां स्तनन्धयीति प्रथमवयस्येति रूढम् । स्तनपा उत्तानशयेत्यपि तथेति चेत् होडादौ पाठः । वयसीति किम् ? त्रिवर्षा, लोहितपादिका । न ह्येतौ वयसि वर्तेते इति । अनन्त इति किम् ? वृद्धा, स्थविरा । अहोडादेरिति किम् ? होडा, बाला, वत्सा, मत्स्या, मध्या, पाका, डिम्भा, कन्या, नन्दा । आदन्ता ये बालाद्यस्तेिऽपि ख्याता होडादौ नः । प्रधानादित्येव-बहुकुमारा रथ्या ।।२१।