________________
१६
कातन्त्रव्याकरणम्
प्राप्त्यपेक्षया विभक्तिरिति एकस्मिन्नर्थे एकवचनमिति सामान्योक्तत्वात् । अतः संख्यायोगः स्यादिति । एकवाक्यतायां पुनः “ शेषाः कर्मकरण०" (२ । ४ । १९) इत्यादौ सप्तम्या अभिधेयार्थकत्वाद् यदर्थसमवेतं कर्मादिकं तद्वाचकप्रकृतेरेव स्यात्, न तद्योगमात्रमपेक्षते इति प्राञ्चः । संख्येति । एकत्वादिकेत्यर्थः । न व्येतीति । विशेषरूपं न यातीत्यर्थः । सदृशमित्यादि त्रिषु लिङ्गेष्वित्यादौ सर्वत्र विषयसप्तमी, अव्ययानां लिङ्गादेरयोगात् ।
ननु युष्मदस्मदोरपि लिङ्गत्रये समानरूपत्वाद् अव्ययत्वं स्यादित्याह – सर्वास्विति । ननु कतिशब्दस्य सर्वविभक्तिषु सादृश्यसंभवादव्ययत्वं स्यादित्याह - वचनेष्वित्यादि । षष्ठीबहुवचने विकृतिसंभवादित्यर्थः ।
अथवा सादृश्यं हि परस्परघटितं भवति । ततश्च विप्रवृक्षयोरपि विप्रेण वृक्षेण इतीणभागं समादाय सादृश्यसम्भवादव्ययत्वं स्यादित्याशङ्क्याह – वचनेष्विति । ननु अक्प्रत्यये सति विशेषरूपावगमात् कथमिदं संगच्छते इति चेद् अव्ययस्यासत्त्वभूतस्य लिङ्गसंख्याविरहेण द्वित्वबहुत्वयोरभावः । अतो नास्ति सर्वेषु वचनेषु अक्प्रत्यय इति । एतत् पुनरेकवाक्यतापक्षमाश्रित्य बोद्धव्यम् । भिन्नवाक्यतापक्षे तु एभ्यः सर्वा विभक्तयः स्युरिति विभक्तिशब्देन कारकमभिप्रेतमिति । एतत्तु कारके तासां विभक्तीनां विधीयमानत्वेन तात्पर्यादुक्तम् ।
1
वस्तुतस्तु विभक्तिशब्देन प्रथमादयः सप्तैवोच्यन्ते । अत एव षष्ठ्या अपि ग्रहणमिति उमापतिः ।तन्नेति महान्तः । एकवाक्यतापक्षेऽव्ययेभ्यः षष्ठ्युत्पत्तेरभावात् । अत एव त्रिषु लिङ्गेष्विति विषयसप्तमी एषां लिङ्गादेरभावादिति कुलचन्द्रः । तदयुक्तं दूषणम्, भिन्नवाक्यतापक्षे कारिकार्थासङ्गतेः । सत्यमित्यादि । नन्वेकवाक्यतापक्षेऽपि कथं ज्ञापकमिति यावताऽस्मिन् पक्षे औत्सर्गिकस्यैकवचनस्यालोपार्थाल्लुगर्थमेवेदम् ? सत्यम् । “अथ परस्मैपदानि ” ( ३ | १|१) इति ज्ञापकाल्लुक् सिद्ध एव || २८९ ।
[समीक्षा]
' स्वर् + सि, प्रातर् + सि, च+ सि, वा + सि, अह + सि' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही सि - आदि (पाणिनि सु - आदि) विभक्तियों का लुक् करके 'स्वः, प्रातः, च, वा, अह' शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - " अव्ययादाप्सुपः " (अ० २।४ । ८२) ।