________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः सामान्येन विहितानां विभक्तीनां यथासंभवं वाक्यान्तरेण पश्चाद् विधीयमानत्वात् | भिन्नवाक्यतापक्षस्तु दुर्गसिंहस्याभिमत इति लक्ष्यते । यदाह टीकायाम् अव्ययेभ्यः सामान्येन विहिताः स्यादयो विद्यन्त एवेति ? सत्यमेतत् । किन्तु एकवाक्यतापक्षे वृत्तिग्रन्थो योजनीय इति । तत्रैवं युज्यते । किमर्थम् इदम् , यावता संख्याकर्मादिविधायकैर्वचोभिरेकमेवेदम्, “तस्मात् परा विभक्तयः" (२।१।२) इति विभक्तिविधायकं वाक्यम्, ततोऽव्ययेभ्य: संख्याकमदिरर्थस्याभावान्न सन्त्येव विभक्तय इति, कथं लुग् विधीयते ? सत्यम् । अत एव ज्ञापकाद् अव्ययेभ्यो विभक्तयोऽनुमीयन्ते, न ह्यन्यथा लुगुपपद्यते इति किमर्थं पुनर्जाप्यन्ते विभक्तय इत्याह - पदसंज्ञार्थमिदमिति। विभक्तिमन्तरेण पदसंज्ञैव न स्यादिति भावः ।।२८९ ।
[क० च०]
अव्ययात् । असंख्यमिति । असंख्यशब्दो व्यर्थकः । तथाहि इयत्तापरिच्छेदाविषयवाची । यथा 'असंख्या देवदत्ताः' । द्वित्वबहुत्वाभाववाची च । तत्राये - शब्दस्यापरिच्छिन्नत्वाद् अतिव्याप्तिः । तथा च,
अहं च भाष्यकारश्च कुशाग्रैकधियावुभौ।
नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः॥ इत्यादि । द्वितीये तु-द्वित्वादिसंख्याभावाद् वचनेषु च सर्वेष्विति वचनासङ्गतिः ? सत्यम् । द्वितीयो न्याय्यः। तथा एकार्थसमवेतत्वेन 'बहुलसंख्यायोगः सिद्धः । एवं कर्मादेः । तर्हि कथम् असंख्यमिति चेत् ? सत्यम् । नौपटादिवत् संख्यासमवायाभाव इत्यर्थः । समुच्चयादेर्गुणत्वात् न गुणे गुणवृत्तिरिति ।अतो भिन्नवाक्यतायां संख्यामात्र
१. एकार्थसमवेतत्वेन समवायघटितैकाधिकरण्येन इत्यर्थः । यथा एकस्मिन् वस्तुनि संख्या समवायसंबन्धेन वर्तते, तथा उच्चस्त्वादिरपीति भावः । यथा 'उच्चैगुहाः' इत्यादि । २. नौपटादिवदिति । अयमर्थः- यथा वस्त्रसंयुक्तायां नौकायां संयोगसंबन्धेन वस्त्रस्य सत्त्वेऽपि समवायसम्बन्धेनाभावाद् वस्त्रसंयुक्ता नौकेति प्रयोगः । तद्वदत्रापि समवायसंबन्धेनाव्ययार्थे संख्यायोगाभावाद् असंख्यमित्युच्यते इति । यद् वा नाविति स्थिते पटादावैकाधिकरण्येन नौगतसंख्यायोगे सत्यपि समवायसंबन्धेन यथा तत्र तस्या अभावः । तद्वदत्रापि ऐकाधिकरण्येन संख्यायोगे सत्यपि समवायेन संख्यायोगाभावाद् असंख्यमित्युच्यते । ३. कथं समवायेनाभाव इत्याह - समुच्चयेत्यादि ।