________________
कातन्त्रव्याकरणम्
पर्यागच्छति, आगच्छति परि । ‘सुस्तुतं भवता' इति उपसर्गत्वाभावात् षत्वं न भवति । अतिस्तुतम् इत्यतिक्रमणे पूजायां च षत्वं न भवति ।। २८९ ।
[वि० प०]
अव्ययात् । “स्वरादिनिपातमव्ययम्" (अ० १।१।३७) इत्यव्ययसंज्ञार्थं सूत्रं केनचित् कृतम्, तदिह न वक्तव्यम् । तत् किन्तदव्ययमित्याह - अव्ययमसंख्यमिति । न व्यतीत्यव्ययम् । न विद्यते संख्या यस्येति असंख्यम् इत्यन्वर्थबलाद् इह अव्ययसंज्ञा सिद्धेति भावः । तथा चोक्तम् -
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति । विभक्तिशब्देनात्र कारकमभिप्रेतम्, न तु स्यादिः, श्लोके वचनग्रहणात् । एवमन्येऽपीति | स्वरादयो निपाताश्चाव्ययास्ते चैतावन्त इति परिसंख्यातुमशक्यत्वाद् इह नोक्ताः । टीकायान्तु कियन्तो दर्शिताः । यदुक्तम्,
इयन्त इति संख्यानं निपातानां न विद्यते ।
प्रयोजनवशादेते निपात्यन्ते पदे पदे ॥ इति । तस्माल्लोकोपचारादेवाव्ययाः प्रतिपत्तव्याः । तथा च लोकोपचारसूत्रे निपाताव्ययोपसर्गेत्यादि दर्शितम् । तत्र निपातेषु प्रादयः क्रियायोगे उपसर्ग इति मन्तव्याः । यदाह -
निपाताश्चादयो ज्ञेया उपसर्गाश्च प्रादयः।
योतकत्वात् क्रियायोगे लोकादवगता इमे ॥इति । प्रादयस्तत्र,
प्रपराप-समन्वव-निर्दुरभि-यधिसूदति-निप्रति-पर्यपयः ।
उप आङिति विंशतिरेव सखे उपसर्गविधिः कथितः कविना ।। पदसंज्ञार्थमिदमिति । ननु लिङ्गत्वाद् अव्ययेभ्य उत्पन्नानां विभक्तीनां लुग्विधानमन्तरेण स्थितिरेव स्यात् । ततो लुगर्थमेवेदम्, यथा “अन्यस्माल्लुक्' (२।४।३) इति, तत्कथं पदसंज्ञार्थमित्युच्यते । न चैतद् वक्तव्यम् – संख्याकर्मा देविभक्तिवाच्यस्यार्थस्याभावादव्ययेभ्यो न सन्त्येव विभक्तय इति । यतः संख्याकर्मादिनियमोऽस्ति, तस्य