________________
४००
कातन्त्रव्याकरणम्
३६२. का त्वीषदर्थेऽक्षे [२/५/२५] [सूत्रार्थ]
तत्पुरुष समास में ईषदर्थक 'कु' शब्द को 'का' आदेश होता है, ‘अक्ष' शब्द के भी पर में रहने पर || ३६२ ।
[दु० वृ०]
कुशब्दस्य तत्पुरुषे ईषदर्थे वर्तमानस्य कादेशो भवति, अक्षशब्दे च परतः । ईषल्लवणम्-कालवणम्, काम्लम्, काक्षेण वीक्षते । ईषदर्थे स्वरे तु परत्वात् कादेश एव ।। ३६२ ।
[दु० टी०]
का त्वी० । तुशब्दोऽत्र पुनरर्थे , का पुनरीषदर्थे तत्पुरुषे भवतीत्येतावन्मात्रमेव । तेन व्यञ्जने स्वरे च ईषल्लवणं कालवणम्, ईषदम्लं काम्लम् । अधिकारस्येष्टत्वात् स्वर इह न वर्तते इति कश्चिदाह । अन्ये तुशब्दग्रहणं पादपूरणार्थम् । “ईषदर्थे, का त्वक्षे" इति कर्तव्ये यदीषदर्थ इति वचनं मध्ये तद् बोधयति - योगोऽत्र विभक्तव्य इति । तेन ईषदर्थस्य पूर्वेण सिद्धत्वात् कुत्सितार्थस्य कादेशः सिद्धो भवति । कुत्सितमक्षं काक्षम् तेन वीक्षते इत्यर्थः । अनिन्द्रियपर्यायेऽपि अक्षशब्दे भवितव्यम् अविशेषादिति मतम् । कुत्सितोऽक्षः काक्षो द्यूतादिः । बहुव्रीहावपि मतम् । कुत्सिते अक्षिणी यस्य स काक्षः । "सक्थ्यक्षिणी स्वाङ्गे" (२/६/४१-५०) इति राजादित्वादत् । नैतद् भाष्ये वार्तिक च चिन्तितमिति । ईषत् पन्थाः कापथः, कुत्सितः पन्थाः कुपध इति राजादित्वादत् । पथशब्दोऽकारान्तोऽपि संभवति । केचित् कुत्सितार्थस्य पन्धिशब्दे कादेशमिच्छन्ति - कुत्सितः पन्थाः कापथः । बहुव्रीहावप्यपरे - कुत्सितः पन्था यस्मिन् स कापथ इति राजादित्वादत् । अर्थग्रहणमिह सूत्रे सुखार्थम् ।। ३६२ ।
[वि० प०]
का त्वी० | इह वाक्यद्वयं वेदितव्यम् । कथमेतद् यावता एकमेव वाक्यमुपलभ्यते । तत ईषदर्थे कादेशोऽक्षशब्दे परत एव स्यात् ? सत्यम् । एवं सतीषदर्थे “का त्वक्षे” इति विदध्यात् । कार्टी, निमित्तम्, कार्यम् इत्येष निर्देशक्रम इति न्यायात् । अतो विपरीतकरणात् ‘का त्वीषदर्थे' इत्येकं वाक्यम्, अक्ष इति द्वितीयमित्याह-अक्षशब्दे चेति ।