________________
५४८
कातन्त्रव्याकरणम्
नैयग्रोधो दण्डः इति । केवलग्रहणादिह तदादित्वे न भवति - न्यग्रोधमूले भवाः न्यग्रोधमूलाः शालयः । यदा न्यञ्चतीति क्विप् न्यङ् तं रुणद्धीति पचादित्वादच् न्यग्रोध इति व्युत्पाद्यते, तदा यकारस्य पदादित्वात् पूर्वेणैव सिद्धे नियमार्थः पुनः पाठः केवलस्य न्यग्रोधस्य भवति । अव्युत्पत्तिपक्षे तु विध्यर्थमेव । तथा क्वचिदधिकारात् स्वागतादीनां न भवति । शोभनमागतं स्वागतम्, तदाह स्वागतिकः । सुष्ठु अध्वरः स्वध्वर:, तेन चरति स्वाध्वरिकः । शोभनानि विगतानि चाङ्गानि यस्य सः स्वङ्गो व्यङ्गः, तस्यापत्यमिति इण् स्वाङ्गिः, व्याङ्गिः । विगतोऽवहारो विशेषेण वा व्यवहारस्तेन चरति व्यावहारिकः ।
1
श्वादेरिकारादौ तद्धिते न भवति - श्वन्शब्द आदिरवयवो यस्य स श्वादि:, द्वारादित्वात् प्राप्ते प्रतिषिध्यते । श्वेव भस्त्रा अस्येति श्वभस्त्रः, तस्यापत्यम् इतीण् श्वाभस्त्रिः । श्वाभस्त्रेरिदं श्वाभस्त्रम् इत्यणि कृतेऽपि न भवतीति सकृद् बाधितत्वात् । एवं शुनां गणः श्वगणः, तेन चरति श्वागणिकः । एवं श्वायूथिकः । आदिग्रहणात् केवलस्य भवत्येव । श्वभिश्चरति शौविकः । इकारादौ तद्धिते इत्येव । श्वभस्त्रस्येदं शौवाभस्त्रम्, श्वदंष्ट्रायां भवः शौवादंष्ट्रो मणिः इति ह्रस्वस्य दीर्घता । श्वपदस्य वा । शुनः पदं श्वपदम्, “तस्येदम्" (२/६/७) इत्यण् - शौवापदम्, श्वापदम् । कथं द्वाभ्यामशीतिभ्यां भूतो भावी चेति तद्धितार्थे विषयभूते समासे सति क्रीतादित्वादिकणि कृते द्व्याशीतिकः । तिसृभिरशीतिभिः क्रीतः त्र्याशीतिकः । अयं यकारः पदस्यादिरिति वृद्धिप्रतिषेधो वृद्धिरागनश्च स्यादिति ? सत्यम् । इह "संख्यायाः संवत्सरपरिमाणयोः” (अ०७/३/१५) इत्युत्तरपदस्य वृद्धिः । तस्याः क्वचिद् अधिकारबलादिह प्रतिषेधो न वक्तव्यः, अतो न वृद्धिरागम इति || ४१६ |
॥ इति श्रीमत्प्रिलोचनदासकृतायां कातन्त्रवृत्तिपत्रिकायां नामचतुष्टये षष्ठस्तद्धितपादः समाप्तः ॥
[क० च०]
न य्वोः । न य्वोराद्येोरिति । नाम्नः सम्बन्धात् सिद्धे पदग्रहणं सामीप्यार्थम् । तेन याज्ञिको वाशिष्ठः यौगपद्यं बौद्ध इत्यत्रावयवयोर्यबोर्न स्यात् । श्वादेरिकारादौ प्रत्यये