________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५४७
तदयुक्तम्, तस्यादिमध्यान्तविषयत्वात् । मध्यमिति चेत्, न । वक्ष्यमाणेनाथशब्देनैव मध्यमङ्गलार्थस्य द्योतितत्वात् ।आगमस्य वृद्धित्वप्रतिपादनार्थमिति परः | आकारोऽपि किल वर्धते । तस्यागमत्वं मा भूदिति चेत्, न । वृद्धिग्रहणे तु वर्धनाद् वृद्धिरिति व्युत्पत्त्यर्थे कथमाकारो वृद्धिरागमो न भवति । केवलं 'स्थानेऽन्तरतमः' (का० परि० १६) इति न्यायो वक्तव्यः । स चानुवृत्तेनापि वृद्धिग्रहणेन समान एवेत्याकारो न भविष्यति । तस्मादाचार्येण सुखप्रतिपत्त्यर्थं श्लोकबद्धः प्रतिज्ञातः, स मा भञ्जीति वृद्धिग्रहणम् । द्वारेत्यादि - दौवारिकः । तेन दीव्यतीत्यादिना नियोगादिकण्, द्वारपाले नियुक्त इत्यर्थः । द्वारपालस्यापत्यम् – दौवारपालिः इतीण् । स्वरमधिकृत्य कृतो ग्रन्थः सौवरः इति । एवमादित्वात् “तदधिकृत्य कृते ग्रन्थे" (२/६/८) इत्यण् । व्यल्कसस्यापत्यं वैयल्कसः।
अव्युत्पन्नपक्षे द्वारादौ पाठोऽस्य युक्तः । यदा तु विगतोऽर्को यस्य स व्यर्कस्तं स्यतीति "आतोऽनुपसर्गात् कः" (४/३/४) प्रत्ययः, कपिलिकादिदर्शनाद् रेफस्य लत्वे 'व्यल्कसः' इति व्युत्पाद्यते, तदा पूर्वेणैव सिध्यति, यकारस्य पदादित्वात् । स्वस्तीत्यादि - सौवस्तिकः इति, क्रीतादित्वादिकण् । स्वर् इत्यव्ययम् - स्वर्भव: सौवः । अव्ययानामन्त्यस्वरादिलोपो दर्शितः । स्वर्गमनमाह सौवर्गमनिकः । क्रीतादित्वादिकण् । स्फ्यकृतस्यापत्यम् – स्फैयकृतः । “वाऽणपत्ये" (२/६/१) इत्यण् । एवं स्वादुमृदोरपत्यं सौवादुमृदवः । शुनः इदं शौवनं मांसम् । शुनः सङ्कोचः शौवः, “नस्तु क्वचित्" (२/६/४५) इति नलोपः । स्वस्येदं सौवम् । कथमिदम् "इवर्णावर्णयोः” (२/६/४४) इत्यादिनाऽकारलोपे नास्त्याकारप्राप्तिरिति प्रतिषेधाभावात् तन्निमित्तो वृद्धिरागमो न स्यात् । द्वारादिपदसामर्थ्यादिति चेत्, न । तस्य तदादौ चरितार्थत्वात् । यथा स्वग्रामे भवः सौवग्रामिकः । तर्हि क्वचिदधिकाराद् भविष्यतीत्यदोषः । एवमित्यादि । स्वश्चासावध्यायश्चेति स्वाध्यायः "तेन दीव्यति" (२/६/८) इति इकण् सौवध्यायिकः । इति ।
___ ननु किमर्थमिदमुच्यते द्वारपाल-स्वर्गमनशब्दौ च किमर्थं पश्येते । यावता तदातिसम्प्रदायादेव सिध्यति । यथा श्वन्-इत्यस्य ग्रहणे तदादावपि भवति । श्वदंष्ट्रायां भवः शौवादंष्ट्रो मणिरिति ? सत्यम् । शब्दान्तरादिभूतानामेषां मा भूदिति दर्शनार्थम् । यथा द्वारकाममाह द्वारकामिकः, स्वः काममाह स्वा कामिकः । स्वशब्दस्येदं स्वाशब्दमिति । कथन्तर्हि सौवग्रामिक इति क्वचिद् इत्यस्य बलात् । केवलस्य न्यग्रोधस्य विकारो