________________
कातन्त्रव्याकरणम्
[वि० प०]
न योः। इह नग्रहणात् पूर्वेण प्राप्ता वृद्धिः प्रतिषिध्यते । वृद्धिरागमश्च न केनचित् प्राप्तः इत्यसौ विधीयते इत्याह - इहेत्यादि । आदिशब्द : समीपवचन इति । यथा ग्रामादौ पर्वतो नासौ ग्रामस्यावयवः किन्तर्हि ग्रामस्य समीपस्तद्वद् इहापीत्यर्थः । पदस्येत्यादि |आद्योर्यकारवकारयोः समीपयोरित्यर्थः । समीपे वृद्धिर्न भवतीति कथमेतत्, यावता पूर्वसूत्राद् आदावित्यनुवर्तते, ततो य्योरादौ वृद्धिर्न भवतीति सम्बन्धो युज्यते । नैवम्, प्रतिषेधो हि प्राप्तिपूर्वको भवति, न तु वोरादौ वृद्धिः प्राप्नोति तत्र स्वरस्यैवासम्भवात् । सा हि स्वरस्यैव विधीयते, तथा च स्वरधर्मो वृद्धिरिति स्थिते सति य्वोरिति स्थानलक्षणा षष्ठी न संगच्छत इत्यर्थात् समीप इति गम्यते । अधिकृतं पुनरादिग्रहणमागमेन सह संबध्यते इत्याह - तयोश्चादावित्यादि ।
व्यसन इति विविध-प्रकारेणास्यतेऽनेनेति करणे युडिति कृते विशब्दस्यासनशब्देन समासे षत्वे च कृते सति अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदस्यासनशब्दस्यादिर्यकारो भवति । तथा विगत उदयो यस्म स व्युदयः । शोभनश्चासावश्वश्चेति स्वश्वः । विविधप्रकारेणाधिक्रियते अनेनेति व्याकरणम् इत्यत्रापीति । प्योरित्यादि । मधुप्रियोऽश्वः दधिप्रियोऽश्वः इति शाकपार्थिवादिर्शनान्मध्यपदलोपी समासः । दध्यश्वस्यापत्यमितीण । दकारमकारयोः समीपे वृद्धिरियमिति न निषिध्यते । तन्निमित्त इति स एव वृद्धिप्रतिषेधो निमित्तं यस्यागमस्य स तन्निमित्तः एकत्र विधानत्वात् । अतो वृद्धिप्रतिषेधमपेक्ष्य विधीयमान आगमः कथं तदभावे स्यादिति भावः । वृद्धिग्रहणं न संज्ञार्थम् अधिकृतेनैव सिद्धत्वादित्याह-पुनरित्यादि । य्वोः समीपे स्वरस्य वर्धनं न भवतीत्यर्थः ।
ननु वर्धनं नाम परिमाणोपचयः स चावस्थितस्यैव धर्मिणो लोके संभवति । अत्र तु आदेशादेशिनोरत्यन्तं भेद: एवेति कथं वर्धनं स्यात् ? सत्यम् । वर्ण एवावस्थाभेदेन वर्धते तप्रत्ययादिति न दोषः । ननु तथापि कथमकारस्य वर्धनमाकार इवणदिश्च कधम् ऐकारादिवर्णो विवर्धनं तस्यातद्धर्मत्वादिति ? सत्यम् । वर्धनयुक्तो वर्णो वृद्धिरित्युपचाराद् वृद्धिमान् न भवतीत्यर्थः । ननु वर्धनाद् वृद्धिरिति किमनया व्युत्पत्त्या ? सत्यम् । संज्ञात्वेन वृद्धेरेव प्रतिषेधो नाकारस्येति । वैयाकरण इत्यत्र प्रतिषेधनिमित्तो वृद्धिरागमो न स्यात् ! यद्येवम्, वृद्धिग्रहणेनैवेदं व्यसनमूलमुन्मील्य ताम् अनन्तरवाक्यप्रणीतकार्यप्रतिषेधे सति वैयाकरण इत्यत्रापि प्रश्लेषव्याख्यानप्राप्ताकारप्रतिषेधनिमित्तो वृद्धिरागमो भविष्यति । एवं सति मङ्गलार्थमिति कश्चित् ।