________________
नामचतुष्टपाध्याये षष्ठस्तद्धितपादः
५४५ ननु द्वारपाल - स्वर्गमन - स्वध्यायशब्दाः किमिति पठ्यन्ते ? सत्यम् । शब्दान्तरादिनिरासार्थम् । स्वः कामयते ।स्वा कामिकः । स्वशब्दस्येदं स्वाशब्दमिति । न्यग्रोधस्य तु केवलस्य । न्यग्रोधस्य विकार इत्यण् - नैयग्रोधश्चमसः । केवलस्येत्येव - न्यग्रोधस्य मूले भवाः न्यग्रोधमूलाः शालयः । तथा न्यञ्चतीति क्विप्, न्यञ्चं रुणद्धीति पचाद्यचि कृते न भवति । न्यग्रोधस्येमे न्यग्रोधा इति । स्वागतादीनां न भवति शोभनमागतं स्वागतम्, स्वागतमाह स्वागतिकः । सुष्ठु अध्वरः स्वध्वरः, तेन चरति स्वाध्वरिकः । शोभनानि विगतानि चाङ्गान्यस्येति "इणतः" (२/६/५) स्वाङ्गिः, व्याङ्गिः । एवं व्यवहारेण चरति व्यावहारिकः । श्वादेरिकारादौ न भवति । श्वेव भस्त्रा अस्येत्यत इण् – श्वाभस्त्रिः, श्वगणेन चरति श्वागणिकः । श्वभस्त्रेरिदं श्वाभस्त्रम् इत्यणि कृतेऽपि न भवति, इकारादावित्येव । श्वदंष्ट्रायां भवः शौवादंष्ट्रो मणिः । ह्रस्वस्य दीर्घता | तथा श्वपदस्य वा शौवापदं श्वापदं वा । "तस्येदम्" (२/६/७) इत्यण् ।
ये तु न पठन्ति न तेषां मतेनाप्राप्ते वृद्ध्याकारे वृद्धिरागम आरभ्यते स तस्य बाधको भविष्यति । स्थानिभेदादसत्यपि उत्सर्गापवादे नित्यत्वाद् वा कृते वृद्ध्यागमेऽनादित्वान्न वृद्धिराकारश्चादेशः इति । आनन्तर्येणैव स्वराणां मध्ये आदौ स्वरस्य स्थाने यौ य्वौ तयोरादौ वृद्धिरागम इति कुतो दध्यग्रादिषु प्रसङ्गः । कथन्तर्हि द्वयाशीतिकः । द्वाभ्यामशीतिभ्यां कृतो द्वे वा अशीती भूतो भावी चेति तद्धितार्थे विषयभूते इकण् । अयं हि यकारः स्वराणाम् आदौ स्वरस्य स्थाने न कृत इति ? सत्यम् । स्वराणामादौ स्वरस्य वृद्धिः प्राप्नोति तत्रायमपवादः । इह च "संख्यायाः संवत्सरपरिमाणयोः" (अ० ७/३/१५) इति वृद्धिरेव । स्वराणामादिग्रहणेन यद्यपि य्वोर्ग्रहणं कृतं तथाप्यावर्तनं वृद्ध्यधिकारबलात् । स्वराणामादौ या वृद्धिस्तस्यां प्राप्तायां स्वराणामादौ स्थाने यौ य्वौ तयोरादावित्यर्थः । उत्तरपदेऽप्येवं विशेषणमिति | प्रतिषेधपक्षे तु व्याशीतिकादौ क्वचिदपीति वचनात् “संख्यायाः संवत्सरपरिमाणयोः" (अ०७/३/१५) वृद्धिरेव । तेन प्रतिषेधनिमित्तो वृद्धिरागमो न स्यात् । सूत्रकारस्य तु मतं विधिमात्रमेवेति लक्ष्यते । वोरादौ वृद्धिरित्यादिग्रहणेनैवागमत्वं लब्धं यदागमग्रहणं तत्सुखप्रतिपत्त्यर्थमिति ।।४१६ ।
॥ इति श्रीदुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां नामचतुष्टये षष्टस्तद्धितपादः समाप्तः॥