________________
५४४
कातन्त्रव्याकरणम्
'न य्वोराद्योः' इति सिद्धे नाम्नः संबन्धाद् यत् पदग्रहणं तत् तत्सामीप्यार्थम्, तेन याज्ञिको वाशिष्ठो यौगपद्यं बौद्ध इत्यत्रावयवयोर्यवोर्न स्यात् । अवयववादी त्वाहपदग्रहणमेवैतत् समासापेक्षया अन्तर्वर्तिविभक्तिपदप्रतिपत्त्यर्थं भविष्यतीति युक्तम्, किन्तु प्रतिपत्तिगौरवं स्यात् । विविधप्रकारेणास्यतेऽनेनेति व्यसनम् । विगत उदयोऽस्येति व्युदयः । शोभनश्चासावश्वश्चेति स्वश्वः । विविधप्रकारेणाक्रियतेऽनेनेति व्याकरणम् । दधिप्रियोऽश्वः, मधुप्रियोऽश्व इति विग्रहः, तस्यापत्यमितीण, स एव प्रतिषेधो निमित्तं यस्यागमस्य स तन्निमित्तस्तदपेक्षया विधानात् । अन्यथा कथमेवं योगं गरीयांसं कुर्यात् । स्वोरादौ वृद्धिर्न भवतीति न सम्बन्धो वाच्यः, वचनस्य वैफल्यात् । न भवति तस्माद् यकारवकारयोः समीप इत्यवसीयते यद्यपि उत्तरपदे वृद्धिस्तदापि भवत्येव । पूर्वत्र्यलिन्दे भवः पूर्ववैयलिन्दः ।, त्रयोऽलिन्दा यस्य स त्र्यलिन्दः, पूर्वश्चासौ त्र्यलिन्दश्चेति, प्राच्यदेशे ग्रामोऽयम् ।
वृद्धिः पुनरित्यादि । वृद्धिग्रहणमधिकृतमिह लभ्यते, पुनर्वृद्धिग्रहणं न संज्ञार्थमित्याह - वर्धनादित्यादि । नन्वकाराकारयोरिह भेदः, कथमकारस्य वर्धनं भवति । किञ्च इवर्णोवर्णयोरैकारौकारत्वेन कथं वर्धनम् ऋवर्णस्य कथम् आरिति ? सत्यम् । वर्धनयुक्तमिह वृद्धिरुच्यते वृद्धिमान् भवतीत्यर्थः । एवं सति वैयाकरण इत्यत्राप्याकारो न भवतीति सिद्धम् । तेन तन्निमित्तो वृद्धिरागमो भवति । द्वारेत्यादि । द्वारपालशब्दं न पठन्त्येके | तदादित्वमिति भावः । स्वरमधिकृत्य कृतः सौवरो ग्रन्थः, "तदधिकृत्य कृते ग्रन्थे" (२/६/७) इत्येवमादित्वादण् । विगतोऽर्को व्यर्कस्तं स्यतीति "आतोऽनुपसर्गात् कः" (४/३/४)। कपिलिकादिदर्शनाल्लत्वम् । व्यल्कसे भवो वैयल्कस इति पदादित्वादेव सिद्धम् | पाठः पुनरिहाव्युत्पत्तौ । स्वस्तीत्याह - सौवस्तिकः । स्वर्भवः सौवकः। अव्ययानामन्त्यस्वरादिलोप उक्त एव । स्वर्गमनमाह - सौवर्गमनिकः । स्फ्यकृतस्यापत्यम् - स्फैय्यकृतः, ऋषित्वादण् । स्वादुमृदोरपत्यम् – सौवादुमृदवः । शुन इदं शौवनम् । स्वस्येदं सौवम् । नन्ववर्णस्य लोपो नास्ति वृद्धिप्राप्तिप्रतिषेधाभावात् कथमागमः ? अथ द्वारादिपाठान्नैवम्, तदादौ प्रयोजनात् स्वग्रामे भवः सौवग्रामिकः। किमनया चिन्तया क्वचिदपीत्यस्य बलात् । एवमित्यादि | स्वश्चासावध्यायश्चेति तेन जीवतीति क्रीतादित्वादिकण सौवाध्यायिकः, यदा शोभनोऽध्याय इति स्वध्यायः इति हस्वस्य दीर्घतायाम्, तदा पूर्वेणैव सिद्धम् |