________________
१८
कातन्त्रव्याकरणम्
[दु० वृ०]
जनपदसमानशब्दानां क्षत्रियाणां रूढसंज्ञा । रूढानां बहुत्वे विहितस्यापत्यप्रत्ययस्यास्त्र्यभिधेयस्य लुग् भवति । पञ्चालस्यापत्यानि – ‘पञ्चालाः । एवं विदेहाः, अङ्गाः, वङ्गाः, कलिङ्गाः, मगधाः, सूरमसाः' अणो लुक् । प्रत्यग्रथाः, कलकूटाः, अश्वकाः । इणो लुक् । बहुत्वे इति किम् ? आङ्गः, आङ्गौ । प्रियवाङ्गा इति समासोऽत्र बहुत्वे न प्रत्ययः ।अस्त्रियामिति किम् ? कालिङ्ग्यः । अपत्यप्रत्ययस्येति किम् ? पञ्चालानामिमे भृत्याः पाञ्चालाः ।।२९०।
[दु० टी०]
रूढा० । जनपदेत्यादि । रूढसंज्ञा पुनरिह लोकोपचारात् सिद्धा इति भावः । व्युत्पत्तिरपि संभवति । रूढः प्रसिद्धो जनपदेन समानशब्दो येषामिति कृत्वा एतदपेक्षया गर्गादयोऽप्रसिद्धा नियतार्थत्वात् लोके विशिष्टविषयतया विदिता इति -
रूढादण् ण्यश्च रूढात् स्यादादैदौदादिकस्वरात् । न तु गान्धारिशाल्लेयाद् नकारादेः कुरोरपि ॥१॥ इदन्तकौशलाजादात् स्त्रियामाऽपत्यमावता। पाण्डोश्च प्योऽप्युलोपेऽस्मिन् संज्ञाशब्दा हि तद्धिताः॥२॥ प्रत्यग्रथादिण् शाल्लांशात् कलकूटाश्वकादपि ।
काम्बोजादेः सदा भेदात् प्रयोगो (प्रत्ययो) नैव दृश्यते ॥३॥ इक्ष्वाकोरपत्यानि इक्ष्वाकवः। तद्धितत्वादेकवचनद्विवचनयोरुलोपो दृश्यते । यथा- 'ऐक्ष्वाकः, ऐक्ष्वाकौ' । आच्च ऐच्च औच्च आदौ यस्य स्वरस्येति विगृह्य पुनर्बहुव्रीहिणा नामोच्यते । तद् यथा आमुष्यस्यापत्यानि आमुष्याः। ण्यस्य लुक् । एवम् ऐतिहाः, सौवीराः । गान्धारिशाल्लेयाभ्यां त्वणेव । गान्धारस्यापत्यं गान्धारिः। शाल्ला नाम क्षत्रिया, तस्या अपत्यम् इत्येयण - गान्धारयः, शाल्लेयाः । कुरोरपत्यानि कुरवः, निषधस्यापत्वानि निषधाः | ण्यस्य लुक् ।अवन्तेरपत्यानि । कोशलाया अपत्यानि कोशलाः । अजादस्यापत्यानि अजादाः । ण्यस्य लुक् । एतेषु ण्येषु सत्सु "स्त्रियामादा" (२।४।४९) अपत्यमात्रता च गम्यते । गर्गादेराकृतिगणत्वात् पाण्डोरपत्यानि पाण्डवः । एकवचनद्विवचनयोस्तु पाण्ड्यः, पाण्ड्यौ ।