________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
६७
परशुश्छिनत्ति, परशौ छिनत्तीत्यत्रापि विवक्षया स्थाल्या पचति ( स्थालीम् ) । स्थलेन निर्वातेन पचतीति । अतो वस्तुतस्तत् करणम् अनिर्देश्यम् इदं तदिति ।
तथा चाह
-
वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् ।
स्थाल्या पचत इत्येषा विवक्षा दृश्यते यतः ॥ ( वा० प०३ । ७ ।९१ ) । कथन्तर्हि 'अश्वेन पथा गच्छति' इति पथः क्रियानिष्पत्तौ व्यवहितव्यापारत्वात् । नैवम्, प्रकर्षस्य हि करणेतरजात्यपेक्षत्वात् । उक्तं च
स्वकक्षासु प्रकर्षश्च करणानां न विद्यते ।
आश्रितातिशयत्वस्य परत्वस्य च लक्षणम् ॥ ( वा०प०३ । ७ ।९३) इति ।
तच्च करणं द्विविधम् बाह्यम् आभ्यन्तरं चेत्याह - मनसेत्यादि । तथेत्यादि । यजिरत्र फलभावनायां पशुयागेन रुद्राख्यं फलं भावयतीत्यर्थः । अन्यस्त्वाह - 'पशुना रुद्रं यजते' इति। यद्यपि 'पशुं रुद्राय ददाति' इति वस्त्वर्थः । शब्दार्थस्तु पशुना देयेन रुद्रं पूजयतीति विवक्षया सिद्धम् । प्रकृत्यादीनामपि करणत्वमस्ति भवतेर्गम्यमानत्वात् । तथाहि अभिरूपभवने प्रकृतिः करणम् । याज्ञिकभवने प्रायः करणम् । 'प्रायेण याज्ञिकः' इत्यसावपि याज्ञिको भवति । गार्ग्यस्य भवने गोत्रं करणम् । तेन हि गार्यो भवति, यद्यन्यगोत्रोऽसौ न गार्ग्य: । क्रयं प्रति द्विद्रोणपञ्चकौ करणम् । तथाहि द्विद्रोण - पञ्चकार्थं हिरण्यं द्विद्रोणपञ्चक उच्यते । यथा प्रदीपार्था मल्लिका प्रदीपः इति । तथा क्रीणातेर्वाकरणस्य सम्प्रदानसंज्ञा न वक्तव्या । 'मासं कर्म करिष्यसि' इति गम्यमानं क्रियापदम् । तच्च प्रधानम्, साध्यत्वात् तदपेक्षया तादर्थ्यमस्तीति भावः । परि समन्तात् क्रीतः परिक्रीतः । नियतकालं स्वीकृतो मूल्यादिनेत्यर्थः । अथवा मूल्येन शतादिना नियतो यः कालो मासादिः स शतमुच्यते, उपचारात् ॥ २९७ ।
,
[वि० प० ]
येन० । येन क्रियते इति । क्रियासिद्धौ यद्यपि बहूनि साधनानि व्याप्रियन्ते तथापि तेषु मध्येऽनेनैतत् करोमीति कर्त्रा यत् प्रकृष्टोपकारकम् अन्तरङ्गं विवक्षितम्, तत् करणम् इत्यर्थः । तथा चोक्तम् -
कारकाव्यवधानेन
क्रियानिष्पत्तिकारणम् ।
यद् वै विवक्षितं तेषु करणं तत् प्रकीर्तितम् ॥