________________
कातन्त्रव्याकरणम् तच्च द्विविधम् - बाह्यम् आभ्यन्तरं चेति । क्रमेण दर्शयति-दात्रेणेत्यादि । 'यजेः कर्मणः करणसंज्ञा सम्प्रदानस्य च कर्मसंज्ञा' न वक्तव्येत्याह - तथेति । यद्यपि 'पशुं रुद्राय ददाति' इति वस्त्वर्थः, तथापि शब्दार्थः पुनः पशुना देयेन रुद्रं पूजयतीति । शब्दप्रमाणकाश्च वैयाकरणाः इति सिद्धं पशोः करणत्वम् । तथा 'प्रकृत्यादिभ्यः उपसंख्यानम्' (का० २।३।१८ - वा०) इत्यपि न वक्तव्यम् भवतेर्गम्यमानत्वात् करणत्वमस्ति । तथाहि 'प्रकृत्याभिरूपः' इत्युक्ते प्रकृत्या अभिरूपो भवतीति गम्यते, अतोऽभिरूपभवने प्रकृतिः करणम् । एवं 'प्रायेण याज्ञिकः' इति। तथा ‘गोत्रेण गार्यः' इति । गार्यस्य भवने ज्ञाने वा गोत्रं करणम् । तेन हि गार्यो भवति ज्ञायते वा । समेन धावति, विषमेण धावतीति । यद्यपि क्रियाऽत्र विद्यते, तथापि समविषमयोः कर्मत्वे प्राप्ते करणत्वं विवक्ष्यते । कथन्तर्हि 'द्विद्रोणेन धान्यं क्रीणाति, पञ्चकेन पशून क्रीणाति' इत्यत्र करणत्वम् ? तथाहि द्विद्रोणेन धान्यं क्रीणातीति द्वौ द्वौ द्रोणौ कृत्वा धान्यं क्रीणात्ययमर्थो विवक्षितः । तथा पञ्चकेन पशून क्रीणातीति पञ्च परिमाणमस्येति पञ्चकः सङ्घः । पञ्चकं सङ्घ कृत्वा पशून् क्रीणातीति पञ्च पञ्च कृत्वा पशून् क्रीणात्ययमर्थः । एवं च सति द्वितीया प्राप्नोति ? सत्यम् । द्विद्रोणपञ्चकार्थं हिरण्यं द्विद्रोणपञ्चकमुच्यते, तादर्थ्यात् । यथा प्रदीपा मल्लिका प्रदीप इति ।
तथा "परिक्रयणे सम्प्रदानमन्यतरस्याम्" (अ० १।४।४४) इत्यपि न वक्तव्यम्, यतः परिपूर्वस्य क्रीणातेः करणस्य विभाषया चतुर्थी न्यायादेव सिद्धेत्याह - प्रधानक्रियापेक्षन्तादर्थ्यमिति । मासं कर्म करिष्यसीति किमर्थं शताय शतपरिशोधनायेत्यर्थः । अथवा परि समन्तात् क्रीतः परिक्रीतः । नियतकालो मूल्यादिना स्वीकृतः, न पुनः सर्वथा क्रीत उच्यते । यदाह जयादित्यः - नात्यस्तिकक्रिय एवेति, ततश्च शतेन मूल्यादिना यो नियतः कालो मासादिः स उपचारात् शतमुच्यते । तत्र च तादर्थ्य स्फुटमस्तीति ।।२९७।
[क० च०]
येन० । ननु “साधकतमं करणम्" (अ० १।४।४२) इति पाणिनिः। तन्मते तमग्रहणात् क्रियासिद्धौ यत् प्रकृष्टं साधकं तत् करणम् इत्यर्थो लभ्यते । तदभावादस्मन्मते किं स्यादिति चेत्, उच्यते - शब्दानां नित्यत्वाद् 'येन' इति करणे तृतीयाविधानाद् येन साधकतमेनेत्यर्थो लभ्यते । अथ तर्हि कर्तुरपि प्रकृष्टसाधकत्वाद्