________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः अस्यापि करणत्वं स्यादिति । नैवम्, क्रियते इति क्रियापदं तच्च कर्तारमन्तरेण न संभवतीति कर्तेति लभ्यते । तेनायमर्थः- क; येन साधकतमेन क्रिया क्रियते तत् करणमित्युक्ते कथं कर्तुः संज्ञेति । अतः कर्तृव्यापारविषयं यत् कारकं क्रियासिद्धी कर्तुळवधायकं तत् करणमित्यर्थः। प्रकृष्टत्वं चास्य कारकान्तराव्यवधानेन क्रियायाः साधकत्वात् । तदुक्तम् -
करणं खलु सर्वत्र कर्तृव्यापारगोचरः।
तिरोदधाति कर्तारं प्राधान्यं तनिबन्धनम् ॥ (यद्यपि करिं व्यवदधाति तथापि करणप्रवृत्तिहेतुत्वेन कतुरेव प्राधान्यमिति कुलचन्द्रः) । न च साधकशब्दस्य वुण्प्रत्ययान्तस्य कर्तृपरत्वात् कतुरेव संज्ञा स्यादिति वाच्यम्, स्वव्यापारे करणस्यापि कर्तृत्वात्। अतः साधकशब्दस्य वुणन्तस्य करणेऽपि साधुत्वमिति । अत एवान्तरङ्गमिति पनी। अव्यवधानेन कार्योत्पादकत्वमित्यर्थः । नन्वनेन न्यायेन ‘दात्रेण धान्यं लुनाति' इत्यत्र भवतु, 'काष्ठैः स्थाल्यामोदनं पचति' इत्यत्र स्थाल्या एवाव्यवधानेन विक्लित्तिक्रियासाधकत्वात् करणसंज्ञा स्यात् न काष्ठस्येत्याह-विवक्षितमिति । एतेन क्रियासिद्धावव्यवधानेन यस्य कार्योत्पादकत्वं विवक्ष्यते तत् करणमिति। अत्र तु काष्ठानामव्यवधानेन कार्योत्पादकत्वं विवक्षितम् । तथा च टीकायाम् - (पा० वा० र०, पृ० ६४२-४३)
वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् ।
स्थाल्या पचत इत्येषा विवक्षा दृश्यते यतः॥इति। कर्मत्वे प्राप्ते इति पञी। क्रियाविशेषणत्वादिति शेषः । कुलचन्द्रस्त्वत्र सप्तमी प्राप्ताविति वदति, तन्मते समशब्दोपदेशपरः । कर्मबाधकपक्षे तु समशब्दः साम्यपरः । एवं विषमशब्दोऽपि । ननु यत्र प्रधानक्रिया न विवक्ष्यते, यथा 'शताय परिक्रीतो हसति' इति। न ह्यत्र हसनं शतपरिशोधनायेति वाच्यम् । अत्र कथं तादर्थ्यमित्याह-अथवेति ।
१. अस्यार्थः । कर्तारं तिरोदधाति व्यवधत्ते क्रियासिद्धेस्तदन्त वित्वात् । तर्हि करणस्यैव प्राधान्यं तत् कथं स्वतन्त्रः कर्ता इत्याह-प्राधान्यमिति । कुतः प्राधान्यं तन्निबन्धनं कर्तनिबन्धनं यस्मादेवंभूतस्यापि करणस्य कर्ता प्रेरक इति स्वतन्त्रः कर्ता भवति । यद्यपि तिरो दधाति तथापि करणप्रवृत्तिहेतुत्वेन कर्तुः प्राधान्यमिति कुलचन्द्रः।