________________
४५९
नामचतुष्टयाध्याये षष्टस्तद्धितपादः [दु० टी०]
नाव० । नौविषशब्दयोस्तार्यवध्यसंबन्धात् तृतीयैव संभवतीत्याह - तृतीयान्तादित्यादि । तुल्यशब्दात् तृतीयानिर्देशाच्चेति भावः । नावा तार्यं नाव्यमिति | नावस्तरणक्रियायां करणत्वं कर्तृत्वं वा विवक्षावशात् । तार्यमिति शक्यार्थे घ्यण् । तेन तीर्यमाणमपि योग्यतापेक्षया नाव्यं जलं यन्नावा तरितुं शक्यते, तथा नाव्या नदीति | विषेण वध्य इति वधमर्हतीत्यर्थे वध्यशब्दो वर्तते स्वभावात् । व्युत्पत्तिवादी त्वाह - दण्डादिभ्य इत्यर्थे यप्रत्यय इति विषेण वधमर्हतीत्यर्थः पूर्ववत् तृतीया । तुलया संमितं तुल्यम्, तुलया परिच्छिन्नमित्यर्थः । पूर्ववत् तृतीया । गिरिणेत्यादि । कश्चिदन्यामपि युक्तिं विलपति गिरिणा तुल्य इति उपमानादुच्यते तुल्य इव तुल्य इति ।
अथवा समं मितं सम्मितं समानं मानं सदृशमित्यर्थः । यथा देवसंमितो राजसंमित इति देवेन राज्ञा वा सम्मित इति गम्यते । तद्वद् इहापि तुलया संमितः सदृशस्तुल्यः परिच्छेदश्च साधारणो धर्मः । यथा तुलया परिच्छिद्यते तथा अनेनापि दृष्टिपरिच्छेदाद् वा । साधुशब्दश्चायमस्त्यपकारके दीनेषु साधुरिति । अस्ति कुशले सामसु साधुरिति । अस्ति योग्यतायां गुडेषु साधुरिक्षुरिति । तत्र कुशलो योग्यश्च दृश्यते न तूपकारकः । स हि तानुपकुर्वाणस्तेभ्यो हितो भवति । तत्र परत्वाद् "ईयस्तु हिते" (२/६/१०) इति प्रवर्तते ।।३७५।
[वि० प०]
नाव० । तार्यवध्यसंबन्धेन नौविषशब्दयोस्तृतीयैव संभवति तुलयेति तृतीयान्तस्य साहचर्यान्नेह नावस्तृतीयान्तादित्याह -नावस्तृतीयान्तादित्यादि । नावः स्त्रीलिङ्गत्वात् तृतीयान्ताया इति वक्तव्ये वृत्तौ कथं तृतीयान्तादित्युक्तम् ? सत्यम् । शब्दप्रधानत्वान्निर्देशस्य नौशब्दादित्यर्थः, पश्चान्नाव इत्यनेन वा संबन्धः । नावा तार्यमिति तरितुं शक्यं तार्यम् । शकि च कृत्या इति शक्येऽर्थे घ्यण्, तेन तीर्यमाणमपि योग्यतामात्रविवक्षायां नाव्यं जलमुच्यते । वध्य इति । वधमर्हतीत्यर्थे दण्डादिभ्यो यप्रत्ययो दृश्यते । सम्मितमिति परिमितमित्यर्थः । तुल्यः सदृशः इत्यन्त इति । ये हि सम्मितशब्दोऽयं सदृशार्थ इति मन्यन्ते तन्मते समं मितं सम्मितं समानं सदृशमित्यर्थः । यथा राजसम्मितो देवसम्मित इति । राज्ञा देवेन च समान इति गम्यते, तद्वदिहापीत्यर्थः। कुशल इत्यादि, कुशले