________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१४३
सिद्धम् । सद्वित्वैरुपर्यादिभिर्योगे तथा कर्मप्रवचनीयत्वात् सर्वतो ग्रामम्, उभयतो ग्रामम्, अभितो ग्रामम्, परितो ग्रामम् । सर्वोभयाभ्यां सर्वनामत्वात् तस् । ‘अभितःपरितः’ शब्दौ स्वभावात् तसन्तौ, तथा सर्वोभयाभिपरिभिस्तसन्तैः कर्मप्रवचनीयत्वादिति ।
आपिशलीयव्याकरणे समयादीनां कर्मप्रवचनीयत्वं दृष्टमिति मतम् । ग्रामाद् दूरम् ग्रामाद् विप्रकृष्टम्, ग्रामादन्तिकम्, ग्रामादभ्याशम्, बहिर्ग्रामात्, आराद् ग्रामात्, बुद्धिकृतावधित्वात् पञ्चमी । दूरं ग्रामस्य, अन्तिकं ग्रामस्येति संबन्ध एव षष्ठी । किं दूरान्तिकार्थैः षष्ठी वेत्यनेन ? दूरं ग्रामस्य, अन्तिकं ग्रामस्य, दूरेण ग्रामस्य, अन्तिकेन ग्रामस्य,दूराद् ग्रामस्य, अन्तिकाद् ग्रामस्य, दूरे ग्रामस्य, अन्तिके ग्रामस्य । स्वार्थ एव विभक्तयः । किं दूरान्तिकार्थेभ्योऽसत्त्ववृत्तिभ्यो द्वितीयातृतीयापञ्चमीसप्तमीविधानेन गतागतस्थितादिक्रियापदानां गम्यमानत्वादिति भावः ।
'दूर ः पन्थाः, दूराय पथे देहि, दूरस्य पथः स्वम्' इति दर्शनात् । तथा च, दूरादावसथान्मूत्रं दूरात् पादावनेजनम् ।
दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद् गुरोः ॥ ( द्र०, मनु० ४।१५१ ) इति । न चासत्त्ववचनेभ्योऽप्यर्थमात्रे द्वितीयाद्याश्चतस्रो विभक्तयो दृश्यन्ते, अर्थान्तरापेक्षत्वात् । यत्र चानपेक्षा तत्र गतादिपदं न चासत्त्वेन गम्यन्ते, अर्थात् सत्त्ववाचित्वमिति स्थितम् । कथं दूरं पन्थाः, अन्तिकं पन्थाः' इति द्वितीया ? क्रियाविशेषणं भवतेर्गम्यमानत्वात् । पृथग्विनानानाभिस्तु तृतीयापञ्चम्यौ विवक्षयेति । पृथग् देवदत्तेन । पृथग्भवने देवदत्तः करणम् । कृत इति गम्यमानत्वात् कर्तरि वा तृतीया । ‘पृथग्देवदत्तात्’ इति, अन्यार्थत्वात् पञ्चमी । एवं नाना देवदत्तेन, नाना देवदत्तात् । 'विना देवदत्तेन' इति, विनाशब्दो रहितार्थः, कर्तरि तृतीया । 'विना देवदत्तात् ' इत्यपादान एव पञ्चमी । यो देवदत्तेन त्यज्यते स देवदत्ताद् रहितो भ्रष्ट इति । पृथग्विनानाना हि क्रियाप्रधाना अव्ययाः । विनायोगे द्वितीया वार्त्तिकेऽपि नोदाहृतैव । अथ यदि वृद्धैः प्रयुक्ता, तदा संबन्धविवक्षायामस्य कर्मप्रवचनीयत्वमभ्युपगम्यमिति ॥ ३०७ ॥
[वि० प० ]
द्विती०। दक्षिणेन ग्राममिति । दक्षिणस्यामदूरवर्त्तिन्यां दिशि ग्रामस्येति विगृह्य अदूरे एनप्रत्ययः, स पुनः सद्यआद्यत्वात् । एवम् उत्तरेण हिमवन्तमिति । चकारेत्यादि ।