________________
१४४
कातन्त्रव्याकरणम्
निकषासमयाशब्दौ समीपवचनौ । हाशब्दः कष्टादौ यस्य तत् कष्टादि, स तेन युक्त इति देवदत्ताद् द्वितीया । यदा पुनः सामान्येन कष्टादौ हाशब्दं प्रयुज्य संबोध्यते पुत्रादिस्तदा न तस्य तेन योग इति प्रथमैव भवति । यथा हा पुत्र ! कष्टमिदमिति । धिक्शब्दः कुत्सावचनः, अन्तराशब्दो मध्यवचनो यस्य तन्मध्यम्, स तेन युज्यते, अतस्तत एव द्वितीया । वेदिशब्दात्तु लिङ्गार्थमात्रे प्रथमैव । गार्हपत्त्यस्याहवनीयस्य च मध्ये वेदिरित्यर्थः । अन्तरेणशब्दो विनार्थः । एते निकषादयः स्वभावादव्ययाः, तथा एनप्रत्ययान्तोऽपीति ॥ ३०७/
[क० च० ]
द्विती०। दक्षिणस्यामदूरवर्तिन्यां दिशि ग्राम इति प्रथमान्ततया बहुपञ्जिकापाठोऽशुद्ध एवेति हेमकरः । तत् तुच्छम् । अदूरवर्तिन्यां दिशि किमाधेयमित्याकाङ्क्षायां ग्राम इति प्रथमान्तनिर्देशस्यादुष्टत्वात् तेन ग्रामस्य दक्षिणस्यामदूरवर्तिन्यां दिशि ग्राम इति फलितार्थः । ननु 'तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्' (मेघ०- उत्तर०, श्लो० १५) इत्यत्र गृहादिति कथं पञ्चमी ? प्रकृत्यादित्वादुत्तरेणेति तृतीया न पुनरेनप्रत्ययान्तयोग इति भाषावृत्तिः । अस्मन्मते तु 'गत्वा' इत्यध्याहारात् करणे तृतीया । (षष्ठ्यपवादोऽयम् । एनेति प्रतिपदोक्तग्रहणाद् देवदत्तेनाधिगतस्य धनमित्यत्र न द्वितीया । केचित्तु अगारं धनपतिगृहादुत्तरेणेत्यनेन न द्वितीया, अवधिविवक्षायां पञ्चमीत्याहुः)। चकाराधिकारादित्यादि । तथा च " पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्” (अ० २। ३ । ३२ ) इति करणविवक्षया तृतीया, अवधौ पञ्चमी च । केचिद् विशेषणत्वाद् द्वितीया, तस्मादित्यर्थः । तेन समयानिकषर्तेऽन्तरेणहाधिग्विनान्तराभिरिति श्रीपतिना यदुक्तं तद्धेयमिति । तथा दूरं पन्थाः, अन्तिकं पन्था इत्यत्र भवतेर्गम्यमानत्वेन क्रियाविशेषणाद् द्वितीया सिद्धैव । एवमन्यत्रापि यदभिधानं तदपि विवक्षायां शिद्धमिति ॥ ३०७ ॥
[समीक्षा]
एनप्रत्ययान्त शब्दों के योग में द्वितीया विभक्ति का विधान पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है - "एनपा द्वितीया" (अ० २।३।३१) । पाणिनि ने पित्स्वर के अवबोधार्थ 'एनप्' प्रत्यय में 'प्' अनुबन्ध लगाया है, परन्तु शर्ववर्मा ने स्वरविधान न करने के कारण 'एन' प्रत्यय ही किया है ।