________________
१४२
कातन्त्रव्याकरणम्
३०७. द्वितीयैनेन [ २।४।२२ ]
[ सूत्रार्थ ]
एनप्रत्ययान्त शब्द के योग में लिङ्ग से द्वितीया विभक्ति होती है || ३०७। [दु० वृ० ]
एनप्रत्ययान्तेन योगे लिङ्गाद् द्वितीया भवति । दक्षिणेन ग्रामम् । उत्तरेण हिमवन्तम् | अदूरे एनोऽपञ्चम्याः । चकाराधिकारात् - निकषा - समया - हा धिक् - अन्तराअन्तरेणयुक्ताद् द्वितीया । निकषा ग्रामम्, समया ग्रामम्, हा देवदत्तम्, धिग् देवदत्तम्, अन्तरा गार्हपत्यम् आहवनीयं च वेदिः । अन्तरेण पुरुषकारं न किञ्चिल्लभ्यते || ३०७ | [दु० वृ० ]
द्वितीयै०। एनेनेतिप्रतिपदोक्तग्रहणाद् देवदत्तेनाधिगतस्य धनं संबन्धो वा न तादृश इति षष्ठ्यां प्राप्तायां वचनमिदम् । चकाराधिकारादिति । स च चकार एनेन सह संबध्यते । एनेनान्येन चेत्यर्थः । अथवा योगविभागस्तेनेष्टसिद्धिरित्याहसमयेत्यादि । समया-निकषाशब्दौ समीपवचनौ यस्य तत्समीपम् स ताभ्यां युज्यते इति ग्रामाद् द्वितीया | हाशब्दः कष्टादिषु वर्तते यस्य तत् कष्टादि, स तेन युक्त इति देवदत्ताद् द्वितीया । यदा तु सामान्येन कष्टादौ प्रयुज्य आमन्त्र्यते, तदा हा तात, हा पुत्र ! कष्टमिदमिति, तदा हाशब्देन तातादिर्न युक्त इति प्रथमैव । दिक्शब्दः कुत्सावचनः, तेन कुत्स्यमानो देवदत्तो युक्त इति । अन्तराशब्दस्य मध्यवाचित्वाद् वेदिर्नान्तरशब्देन युक्तेति अर्थमात्रे प्रथमैव, यस्य तन्मध्यं स तेन युज्यते इति भावः ।
कश्चिदाह – गौणत्वादभिसंबद्धस्य न द्वितीयेति अयुक्तम् । अन्तरेणशब्दस्तु विनार्थः, मध्यार्थश्च । किन्तेन केशवार्जुनयोरन्तरेण गतेनेति लाक्षणिकत्वाद् अन्तरेण विशेषेण गतेन ज्ञातेनेत्यर्थः । अन्य आह - अन्तराशब्दोऽविभक्त्यन्तः, तत्साहचर्याद् अन्तरेणशब्दोऽप्यविभक्त्यन्तः । एतेनान्तरेणशब्दोऽप्यव्यय एवेति । सूत्रकारमतं समयादीनां कर्मप्रवचनीयत्वाभ्युपगमाद् द्वितीया । 'बुभुक्षितं न प्रति भाति किञ्चित्' इति बुभुक्षितं प्रति न प्रकाशते किञ्चिदित्यर्थः । प्रतिना योगेऽपि कर्मप्रवचनीयता | यदा तु धातुना योगस्तदा संबन्धे षष्ठ्या भवितव्यमेव, देवदत्तस्य प्रतिभाति । उपर्युपरि ग्रामम्, अधोऽधो नगरम्, अध्यधि ग्रामम् । उपरि - अधः - अधीनां सामीप्ये द्विर्वचनं