________________
कातन्त्रव्याकरणम्
यो महान्, तद्विषयोऽर्थः प्रयोजनमस्येति महद्भ्यो महतीदमित्यर्थो न भिद्यते । तत्पुरुषे त्वर्थशब्दस्य पुंलिङ्ग्ङ्गत्वात् पुंलिङ्ग एव समासः स्यात्, वचनमपि सर्वलिङ्गतार्थं क्रियमाणयुक्तमिति।
३३०
पञ्चमीत्यादि । “भयमीतभीतिभीभिर्निर्गतेन चापेतापोढमुक्तपतितापत्रस्तैरल्पशः” (अ० २ । १ । ३७-३८) इति नाद्रियते ? अधर्माज्जुगुप्सुरित्यादिदर्शनात्।‘अल्पश:' इति वचनान्महतो न स्यात्। 'प्रासादात् पतितः' इत्ययुक्तम् । भास्वद्ग्रावोद्गतेनेत्यादिदर्शनात् । न च तत्राल्पविवक्षा । पुंलिङ्गत्वाद् देवदत्तात् पूर्वः' इत्यादौ सापेक्षत्वादसमास इति । षष्ठीत्यादि। ‘आत्मषष्ठः' इति पूरणप्रत्ययान्तेनाप्यभिधानात् समास इति भावः। ‘छात्राणां पञ्चमः' इत्यादिष्वनभिधानमेव । वर्तमानसामीप्यमिति । यथा गन्धादिष्वगुणवचनेषु समासो दृश्यते, भावान्तेष्वपीति भावः । समीपस्य भावः सामीप्यम्, वर्तमानस्य सामीप्यमिति विग्रहः । तद् यथा - गोशतम्, गोसहस्रम् बुद्धिवैगुण्यम्, करणपाटवम्, पुरुषसामर्थ्यम्, अङ्गमार्दवम्, बुद्धिकौशलम् बुद्धिनैपुण्यम्, पटुचापलम्, अर्थगौरवम्, शब्दलाघवम्' उदाहरणभूयस्त्वम्- 'द्रव्यकाठिन्यम्, आत्मशौचम्' इत्यादयो दृश्यन्ते । गुणवचनानां तु विशेष्यसापेक्षत्वादसमासः । चन्दनस्य मृदुरिति गन्धोऽत्र विशेष्यः । तव्यप्रत्ययेनापि यथा वाक्यं तथा समासो दृश्यते इत्याह- ब्राह्मणस्य कर्तव्यम् इत्यादि । ‘ब्राह्मणस्य कुर्वन्’ इत्यादि कर्मपदान्तरस्याविवक्षायां सामर्थ्यं चेत् तथापि शन्तृङानशोः प्रथमैकाधिकरणे क्रियापेक्षायां विधानात् सापेक्षतेति भावः ।
एवं ‘मातुः स्मरणम्, सर्पिषो दयमानः' इति तथेत्यादि । यथा शन्तृङानशोर्वाक्यं तथा ‘फलानां तृप्तः’ इति वाक्यमेव, अकर्मकत्वात् कर्तरि क्तः, सम्बन्धे षष्ठीयम् । ननु 'करणविवक्षायां फलैस्तृप्तः फलतृप्तः इति समासः केन वार्यते । यदि षष्ठीसमासोऽपि स्याद् बुद्धिभेदात् कोऽपरो भेद इति । 'फलानामाशितः, फलानां सुहितः' अव्ययेनापि न्यायादसमास इत्याह- छात्रस्येत्यादि । किमुच्चैर्गृहमित्यपेक्षते । यथा ब्राह्मणस्य शुक्ला: केशदन्ता इति । तथा मित्रस्य कृत्वा प्रियस्य कृत्वेति परकालापेक्षता शर्ववर्मणः सूत्रकारस्येति समानाधिकरणे समासो नास्ति । धनादिसंबन्धे षष्ठीति परस्परैकार्थत्वाद् असम्बन्ध इति। एवं निर्धारणे या षष्ठी, तस्याश्च शूरादिपदापेक्षया निर्धारणप्रत्ययात् 'पुरुषाणां क्षत्रियः शूरः, गवां कृष्णा सम्पन्नक्षीरा, गच्छतां धावन्तः शीघ्राः' इति । यथा सर्पिषो ज्ञानं सर्पिर्ज्ञानम् इति सम्बन्धषष्ठ्याः, तथा कर्तृकर्मणोः कृति विहिताया
1