________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
यद, बाष्पैरपि छेत्तुं शक्यानि इति । अन्यस्त्वाह - योग्यतयाऽध्यारोपितार्थवचनमधिकार्थवचनं मांसान्योष्ठावलेप्यानि निन्दाविवक्षाऽत्र गरीयसीति । अधिकार्थवचनादन्यत्र काकै: पातव्या नदीति स्वरूपस्याविष्करणं क्वचित् स्यादिति । 'बुषैरूपेन्ध्यः' इति इन्धेर्घ्यम् । घनेन घात्यमिति स्वराद् यः अधिकार्थवचनादन्यत्रापीति भावः । तथा व्यञ्जनवाच्यान्नवाचिना मिश्रीकरणवाचिनेति । संस्कारकं व्यञ्जनम्, संस्कार्यमन्नम् । मिश्रीकरणं च संस्कारकं भक्ष्यस्येति ।
३२९
"
ननु च क्रियाकृतः कारकाणां सम्बन्धो न स्वभावात् काचिद् वृत्ताविह क्रिया श्रूयते इति परस्परसंबन्धात् कथं समासः ? सत्यम् । वृत्तेः पदेनैवोपसिक्तादिक्रियायाः प्रख्यापनादस्ति संबन्धः । यथा गुडादिपदैः स्वभावान्माधुर्यादयो गम्यन्ते, किमुपसिक्तेन पृथगेव वाक्यमाह–दध्नोपसिक्त इत्यादि । चतुर्थीत्यादि । हितादिभिस्तादर्थ्य एव चतुर्थी । परस्त्वाह - विकृतिः प्रकृत्या समस्यते इति । यूपायेति व्यपदेशान्तरयोगेन यूपस्य विकृतित्वम् । रन्धनं न विकारः, स्थाल्या इति रन्धनाय स्थालीति वाक्यमेव । यथा गोभ्यो रक्षितं तृणम्, कुबेराय बलिः, भक्तमिति नात्र प्रकृतिविकृतिभावस्तादर्श्यमिति । यद्येवम् ‘अश्वघासः, श्वश्वम्बरम्, हस्तिपिधानम्, अवहननोदूखलम्, नाट्यशाला, रन्धनगृहम्, वासभवनं न सिध्यति । अथ अश्वस्य घासः अश्वघास इति षष्ठी - समासश्चेत् ‘गोहितम्, रन्धनस्थाली' इति कथन्न भवति । तस्माच्चतुर्थीसमासे षष्ठीसमासे च नास्ति विशेषः तथा च भाष्यकारोऽप्याह- अश्वघासादयः षष्ठीसमासा भविष्यन्ति यद्धि यदर्थं तत् तस्यापीति सम्प्रदानचतुर्थ्या अपि समासो दृश्यते इत्याहदेवाय देयमित्यादि। ग्रामाय गतो 'ग्रामगतः' इति द्वितीयायाश्चतुर्थ्याश्च समासो विशेषभाव इत्यविरोधः । 'देवाय नमः' इति नमआदिभिरनभिधानादसमासः । ब्राह्मणार्थमित्यादि । तादर्थ्यचतुर्थ्या अर्थशब्देन गतार्थत्वादेवाप्रयोग इति वाक्यनिवृत्तिः सिद्धैव, समासस्त्वाविर्भावनमात्रमुच्यते, स्वभावसिद्धत्वात् । यद्यप्यर्थशब्दः पुंलिङ्गः उत्तरपदार्थप्रधानश्च तत्पुरुषः, तथापि वृत्तिशब्दानामत्यन्तवैलक्षण्याद् ब्राह्मणार्थशब्दः कृतसमासो येन येनाभिधेयेन संबध्यते, तस्य तस्य गुणवचनवल्लिङ्गमादत्ते, स्वाभावादिति । अपर आह-बहुव्रीहिणा लिङ्गविशेष इति ब्राह्मण एवार्थो यस्याः प्रपायाः सा ब्राह्मणार्था । एवं ब्राह्मणार्थं पयः इति यद् वस्त्रादिकं मातृनिमित्तं तस्य माता प्रयोजनं भवति, विवक्षया नार्थो भिद्यते, न च महदर्थम् इत्यात्त्वं प्रसज्येत, भिन्नाधिकरणबहुव्रीहित्वात् । महद्भ्यो