________________
३२८
कातन्वव्याकरणम् पतितगतात्यस्तप्राप्तापन्नैर्गम्यादिभिः, खट्वा क्षेपे, तान्तेन, स्वयम्, सामि, कालात्यन्तसंयोगे च" (अ० २।१।२४,२६,२५,२७,२८,२९) इति नाद्रियन्ते यथेष्टं महाकविनिबन्धा दृश्यन्ते दीर्घाघ्रातानित्यादयः, तस्मादभिधानमेवाश्रयः इत्याह-क्वचिदित्यादि । भुक्तवान् इत्यनेन क्तवन्तुरिहोपलक्ष्यते, तेन धान्यं छिन्नवानित्यादि। तृतीयान्तस्य गुणवचनेन तृतीयान्तकृतेनार्थशब्देन च पूर्वसदृशसमानार्थकलहनिपुणमिश्रश्लक्ष्णैश्च समासस्तेनैव ।
ननु च 'गिरिकाणः' इत्यत्र नामकरणतापेक्षया कारकलक्षणा तृतीया स्याद् अर्थादिशब्दयोगे कथमिति? सत्यम्, भवतेर्गम्यमानत्वात् सर्वत्रैव तृतीया करणे, कृतशब्दो वाऽत्र गम्यमानार्थ इति कर्तरि तृतीया। कथं पित्रसदृशः, पितृसमः? तुल्याथै ः सह भावनायां तृतीयेत्युक्तम् । ननु च सर्वथा सदृशशब्दस्य योगभावनायां तृतीयासमासो नाभिधीयते। न हि देवदत्तेन गतो 'देवदत्तगतः' इति स्यात् ? सत्यम्, सदृशसमाभ्यामभिधानात्। अथवा षष्ठीसमासो भविष्यति। यथा 'पितृतुल्यः' इति। अनभिधानाद् धान्येन धनवान्, घृतेन पाटवमिति। गुणे वर्तित्वा योऽन्यद्रव्ये वर्तते न गुणवचन इत्युक्तम् । तथा हेतुविशेषणकुत्सिततृतीयाया न समासाभिधानम् । अथवा कन्याशोको देवदत्तस्येति संबन्धमात्रविवक्षायां भवितव्यम्, हेतुविवक्षायामपि तु यदि स्यात् का वस्तुक्षतिरिति? जटायुक्तस्तपस्वी जटातपस्वीति विवक्षायां भाव्यमेव विशेषणविवक्षयापि का वस्तुक्षतिरिति भावः । अक्षि काणमस्येति ‘अक्षिकाणः' इति भवितव्यमेव 'अक्ष्णा काणः' इति विवक्षायां का वस्तुक्षतिरिति । परमतेनापि भवितव्यमेव। यथा गिर्यादिना काणः कृतस्तथा अक्षणापि, न ह्यचक्षुः काणो भवति 'प्रमादकाणः, प्रमादमूर्खः' इति च दृश्यते एवं 'धान्यधनवान्, घृतपाटवम्' इति संबन्धविवक्षया चेत् तृतीययापि का वस्तुक्षतिरिति भावः। एवं कर्तृकरणयोस्तृतीयायाः कृदन्ते यथाभिधानं 'राजहतः' इत्यादि राज्ञा का हतः, नखैः करणैर्निभिन्नः इति समास एव । पादाभ्यां ह्रियते पादहारकः । संज्ञाशब्दोऽयं "कृत्ययुटोऽन्यत्रापि" (४।५।९२) इत्यपिशब्दस्य बहुलार्थत्वात् कर्मणि वुण गले चुप्यते 'गलेचोपकः' इति यथा कर्तरि करणे वा तृतीया तादर्थ्यचतुर्थ्या वाभिधानात् समासः, पदार्थं ध्रियते नपुर इत्यर्थः। 'दात्रेण लूनवान्, परशुना' छिन्नवान्-वाक्यमेव । तथा कृत्यान्तैरधिकार्थवचनैः स्तुतिनिन्दानिमित्तक मध्यारोपितवचनमधिकार्थवचनम् । पूर्णत्वोभावनं नद्याः स्तुतिर्निन्दार्थमध्यारोपितार्थः काकपेयत्वम् एवं नाम पूर्णा यत् तटस्थैः काकैरपि पातुं शक्या, तथैवं मृदूनि तृणानि,