________________
३२७
नामचतुष्टयाध्याये पचमः समासपादः सप्तमी-अक्षेषु शौण्डः ‘अक्षशौण्डः'। एवम् अक्षधूर्तः, अक्षकितवः। वनेऽन्तवसतिः वनान्तर्वसतिः। तथा काम्पिल्यसिद्धः, छायाशुष्कः, कुम्भीपक्वः, चारकबन्धः, तीर्थ-ध्वाङ्क्षः, तीर्थकाकः तथा पूर्वाह्वगेयं साम, मासदेयम् ऋणम्, पूर्वाह्नकृतम्, अपराह्णकृतम्, पूर्वरात्रकृत्रम्, अपररात्रकृतम् । एवमन्येऽपि।
परपदेनेति किम् ? गतो ग्रामम् । कथं प्राप्तो जीविकां प्राप्तजीविकः? एवम् आपन्नजीविकः? अत्यादयः क्रान्तायर्थे द्वितीयया - अतिकान्तः खट्वाम् अतिखट्वः? अवादयः क्रुष्टायर्थे तृतीयया-अवक्रुष्टं कोकिलया अवकोकिलं वनम् ? एवम् अवमयूरम् । पर्यादयो ग्लानायर्थे चतुर्थ्या-परिग्लानोऽध्ययनाय पर्यध्ययनः ? निरादयो गतायर्थे पञ्चम्या- निर्गतः कौशाम्बिः? सत्यम् । कृते समासे पूर्वनिपातः, अभिधानात् । यथा दन्तानां राजा 'राजदन्तः' इति। 'कुब्राह्मणः' इत्यादीनां कर्मधारयः।। ३४५।
[दु० टी०]
विभक्तयः। आदौ भवा आद्याः। द्वितीया आद्या यासां ता द्वितीयाद्या विभक्तयः परपदेन तु नाम्ना समस्यन्ते । हि यस्मात् समासः स तत्पुरुषो ज्ञेय इत्यर्थः । बुद्धिविवक्षायां वाक्यसमासपक्षे वा तेनैव समास इति भावः । पूर्वपदेन तु समासो नाभिधीयते । वाक्यसमासैकनिष्ठः पुनराह - नियमपूर्विकेयं संज्ञेति । विभक्तयो द्वितीयाद्याः परपदेनैव नाम्ना भिन्नाधिकरणेन समस्यन्ते इति । तेन गतो ग्रामम् इत्यादिषु समासो न स्यात् । केवलादपि गमेर्णिन्-ग्रामगामी । भविष्यति गम्यादयो निपाता गृह्यन्ते । खट्वारूढ इति । स्वभावात् क्षेपो निन्दा समासवाच्य एवायं न वाक्यगम्यः अधीत्य स्नात्वा गुरुभिरनुज्ञातेन खट्वा रोढव्या, योऽन्यथा खट्वारोहणं करोति स विमार्गस्थितस्तिरस्कारार्थमेवमुच्यते। क्षेपादन्यत्र नाभिधीयते समासः। खट्वामारूढोऽध्यापकोऽध्यापयति । स्वयम् इत्यव्ययमात्मनेत्यर्थे वर्तते स्वयं विधौतौ पादौ । तत्पुरुषसंज्ञाया इह प्रयोजनं नास्ति समासस्तु तेनैव ऐकपद्यात् तद्धितसमासान्तरयोग्यः स्यात्। तथा सामीत्यव्ययम् अर्धपर्यायः, सामिकृतमेकपदं भवति। अहरतिसृता इत्यादि ।
__काला इति षण्मुहूर्ताश्चराचरास्ते रात्रिं गच्छन्ति कदाचिद् दक्षिणायने, कदाचिदहर्गच्छन्त्युत्तरायणे मासप्रमित इति आदिकर्मणि क्तः । मासं प्रमातुमारब्ध इत्यर्थः। क्तेनापि विना कालवाचिनां समासः मुहूर्तसुखमित्यादि। सर्वा चासौ रात्रिश्चेति समासान्तोऽत्।सुखकल्याणीभवनेन व्याप्यत्वादत्यन्तसंयोगः। तस्माद् "वितीया श्रितातीत