________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
अपि इत्याह- पलाशशातनमित्यादि । शातंयत्यनेन, शातयतीति वा करणे कर्तरि वा युट् । एवम् इध्मव्रश्चनः पलाशस्येति कर्मणि षष्ठी । मातुः स्मरणमपि कर्मणि, तथा 'सुराणाम् ईश्वरः' इति । योऽपि प्रतिपदविहितायाः षष्ठ्याः समासं नेच्छति, तेनापि सम्बन्धषष्ठ्याः समासः एष्टव्य एवेति भावः, प्रयोगाणामेषां लोकसिद्धत्वात् ।
३३१
राजपूजित इत्यादिष्विति । राज्ञां पूजित इति " वर्तमाने क्तः " (अ० ३।२।१८८)। आदिग्रहणेन ' इदमेषामाशितम्, आश्चर्यो गवां दोहोऽगोपालकेन । भवतः आसिका, अपां स्रष्टा, ओदनस्य पाचिका' इति । अधिकरणविहिते क्ते " उभयप्राप्तौ कर्मणि कर्तरि च " (अ० २।३।८) यौ तृजकौ, तत्र संबन्धषष्ठ्याः एवेति भावः। यथा ‘ब्राह्मणयाजकः, गुरुपूजकः' इति याजकादिभिरिष्यत एवेति । तथा क्रीडायां जीविकायां च रूढित्वान्नित्यसमास एवेति । 'उद्यानपुष्पभञ्जिका' इति कस्याश्चित् क्रीडायाः संज्ञा, “संज्ञायां च " ( ४|५|८८) इति वुञ् । 'दन्तलेखकः' इति जातिचचनसमुदायः, कर्तरि वुण् । तस्मान्निर्धारणपूरणगुणसुहितार्थेत्यादीनां सूत्राणामिह नैवादर इति । तथा च पटशौक्त्यादीनां भावप्रत्ययान्तानां प्रयोगो भट्टेनापि निश्चित इति । वैशेषिकाणां दर्शने तु नैते गुणा इति समासो न विहन्यते । वाक्यपद्यां च स्वभावार्था एवैते योगाः खलु निश्चिताः इति संक्षेपार्थः । सप्तमीत्यादि । शौण्डादिभवनेऽक्षादीनां विषयादिभावादधिकरणता । शौण्डादिभिरन्यैश्च समासेन भाव्यम् । एवं परेषां गणपाठोऽनर्थकः । ध्वाङ्क्षार्थेन क्षेपे समासः अभिधानात् । तीर्थेत्यादि । ध्वाङ्क्षपर्यायाणां भवने तीर्थम् औपश्लेषिकमधिकरणम् उपमानेन क्षेपो गम्यते-तीर्थे ध्वाङ्क्ष इवेति । यथा तीर्थे ध्वाङ्क्षो न चिरं स्थाता, तद्वत् कर्तव्यं प्रत्यस्थिरः स तीर्थध्वाङ्क्षवाच्यः । इवार्थस्तु समासान्तर्भूत इति कृत्यप्रत्ययान्तेनावश्यम्भावे गम्यमाने समासः, अभिधानात् । तथेत्यादि । पूर्वाह्ण इति विषयभावे सप्तमी । मासदेयमृणमिति सामीपिकमधिकरणम् । माससमीपे दिवसे यद् ऋणदानादिकं तदपेक्षया देयम्, मासे व्यतीतेऽनन्तरो दिवसः समासप्रत्या-सन्नत्वाद् उपश्लेषलक्षणा वा भावलक्षणा वा सप्तमीत्येके । संज्ञायां विषयेऽभिधानाद् ‘अरण्ये तिलकाः, वने कशेरुकाः, वने वल्लजाः' । सप्तम्या अलोप एव | अत्रेति क्तान्तेन समस्यते एकपदार्थम् - तत्रकृतम्, तत्रभुक्तम् । तथा क्तान्तेन क्षेपः ‘अवतप्ते नकुलस्थितम्' अवतप्ते प्रदेशे नकुलश्चिरं स्थाता न स्यात् । स्वभावादयमपि उपमानाभिधायी समासः । यः कार्यमारभमाणश्चिरं न तिष्ठति स एवमुच्यते ।