________________
कातन्त्रव्याकरणम्
एवम् 'उदके विशीर्णम्, प्रवाहे मूत्रितम्, भस्मनि हुतम्' । निष्फलमनुष्ठानमुच्यते । स्वभावादलोप इह सप्तम्याः- - पात्रेसमिताः, पात्रेबहुलाः, उदुम्बरमशकः, कूपमण्डूकः, मातरिपुरुषः, पिण्डीशूर : गेहेनर्दी, गोष्ठेपण्डितः, गोष्ठेपटुः । अवधारणेन क्षेपः ‘पात्र एव समिताः, पिण्ड्यामेव शूरः' इति । क्वचिदुपमया क्षेपः - उदुम्बरेण मशक इति उदुम्बरमशको यस्तत्रैवाबद्धो न क्वचिद् याति तमेवोत्कृष्टं मन्यते स एवोच्यते यथालक्ष्यं योज्यम् । पात्रेसमितादीनां समासान्तरं नाभिधीयते इति 'परमाः पात्रेसमिताः' इति । तद्धितास्तु दृश्यन्ते - पात्रेसमितस्यापत्यं पात्रेसमितिः । अहोरात्रावयवाः क्तान्तेनेति । पूर्वाह्णकृतम्, अपररात्रकृतम् | अवयवादन्यत्र - अह्नि कृतम्, रात्रौ कृतम् । कथं दिवसकृतम्, रात्रिकृतमिति करणतृतीयायाः समासः । यथा अन्यजन्मकृतम् इति बुद्धेरन्यः को भेद इति किं विशेषवचनेन ? कथमित्यादि । नियमपक्षे दुष्यतीति भावः । परिहारमाह – सत्यमित्यादि । द्वितीयान्तानामेव प्राप्तादिभिः समासः। वाक्यसमासपक्षेऽपि पूर्वनिपात इत्यादि । समासराशिपक्षे तु न चोद्यम् एवम्भूता एवामी शब्दाः, स्वभावादिति । अथवा बहुव्रीहिणा साध्यते - प्राप्ता जीविका येन, आपन्ना जीविका येन, अर्थस्याभेदात् । प्राप्ता जीविका यया, आपन्ना जीविका यया सा प्राप्तजीविका, आपन्नजीविका इति । पूर्वपदस्य च तुल्याधिकरणत्वात् पुंवद्भावः पूर्वपक्षे तु याकारौ स्त्रीकृतौ ह्रस्वौ क्वचिदिति प्रतिपत्तव्यम् । द्वितीयासमासोऽपीष्यत एव जीविकाप्राप्तः, जीविकापन्नः। स्वरविधेरनादरादिह बहुव्रीहिरेव श्रेयान् । पूर्वनिपातपक्षस्तु अभ्युपगमवादेन दर्शितः । अत्यादय इत्यादि । नित्यसमास एवाभिधानात् क्रान्ताद्यर्थवृत्तित्वाच्च संबन्धोऽप्यस्तीति शब्दान्तरेणार्थस्त्वाविर्भाव्यते । अतिकान्तो राजानम् ‘अतिराजः' इति तत्पुरुषत्वादत् । कुब्राह्मण इति । कुशब्दोऽयमव्ययः कुत्सितो ब्राह्मण इति । भवति हि तुल्याधिकरणः । तथा ईषदुष्णं कोष्णम् । तथा प्रादयो गतार्थे प्रथमया" । प्रगतः आचार्य:, प्रान्ते वासी प्रवासी । एवं प्रणायकः, प्रगतो नायकः। अधिसेकः, अधिकः सेकः । दुर्निन्दार्थः, दुष्पुरुषः । कृच्छ्रार्थेऽपि दृश्यते – दुष्कृतम्, कृच्छ्रकृतमित्यर्थः । सुपुरूषः, शोभनः पुरुषः । सुकृतम् । सुष्ठु कृतम् । अतिष्टुतम्, अतिशयेन स्तुतम् "स्वतिभ्यां पूजायाम्” षत्वम्, अतिस्तुतम्, अतिक्रान्तं स्तुतम्। आकडारः, ईषत्कडारः । आबद्धः, सुष्ठु बद्धः || ३४५ |
[वि० प० ]
विभक्तयः। अनुष्टुभैव सूत्रार्थः स्पष्टमाख्यातः इति न विवृतः, नाम्नां युक्तार्थत्वात् समासः सिद्ध एव । यदिह पुनर्विधानं तत् सुखार्थमेव, नियमार्थमित्यपरः । परपदेनैव
३३२