________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३३३ नाम्ना समस्यन्ते, न तु पूर्वपदेनेति । पूर्वपक्षे तु गतो ग्रामम् इत्यादिष्वनभिधानादेव न भवति। "द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः" (अ० २।१।२४) इति कश्चिदाह-तदिह सामान्यविधानात् सिद्धमित्याह - कष्टं श्रित इत्यादि । तथाहि दीर्घाघ्रातानित्यादयो यथेष्टं महाकविनिबन्धाद् द्वितीयासमासा दृश्यन्ते, तस्मादभिधानमेव श्रेयः किं विशेषवचनेन । तथा "गम्यादीनामुपसंख्यानम्" (अ० २।१।२४-वा०) इत्यपि न वक्तव्यमित्याह - ग्रामगमीत्यादि । गमिष्यतीति गमी। “भविष्यति गम्यादयः" (४।४।६८) इति निपात्यन्ते। ग्रामं गमी, ग्राममागामीति निष्ठादेराकृतिगणत्वादिह कृप्रयोगेऽपि षष्ठीप्रतिषेधः 'खट्वारूढो जाल्मः' इति, विमार्गस्थित इत्यर्थः। अधीत्य स्नात्वा गुरुभिरनुज्ञातेन खट्वा आरोढव्या। तत्र योऽन्यथा खट्वामारोहति स तिरस्कारार्थमेवमुच्यते । खट्वारोहणं चात्र विमार्गस्थितस्योपलक्षणम् , सर्व एवाविनीतः खट्वारूढ उच्यते। नित्यसमासश्चायम्, न हि वाक्येन क्षेपो गम्यते। खट्वा क्षेपे क्तेन समस्यते, अभिधानात् । क्षेपादन्यत्र न भवति-खट्वामारूढोऽध्यापयति। तस्मात् किं "खट्वा क्षेपे" (अ० २।१।२६) इति वचनेन।
तथा कालाः क्तेन समस्यन्ते इत्याह-अहरित्यादि षण्मुहूर्ताश्चराचरास्ते चाहर्गच्छन्त्युत्तरायणे, रात्रिं गच्छन्ति दक्षिणायने इति । मासप्रमितश्चन्द्रमाः' "आदिकर्मणि कर्तरि च" (४।६।४८) इति कर्तरि क्तः। मासं प्रमितो मासप्रमितः। मासं प्रमातुरारब्धः प्रतिपच्चन्द्रमा इत्यर्थः। तथा अत्यन्तसंयोगेऽपि समासं दर्शयति-मुहूर्तसुखम् इत्यादि । इह भवतेरन्तर्भूतक्रियान्तरस्य गम्यमानत्वात् कर्मत्वम् । सर्वा चासौ रात्रिश्चेति विग्रहे "अहःसर्वेकदेश०" (२।६।७३-१७) इत्यादिना राजादित्वाद् अत् ‘ओदनं भुक्तवान्' इत्यनेन क्तवन्तुरुपलक्ष्यते । तेन ‘धान्यं छिन्नवान्' इत्यादावपि न भवति एवं "तृतीया तत्कृतार्थेन गुणवचनेन" (अ० २।१।३०) इत्यपि न वक्तव्यम् इत्याह-तृतीयेत्यादि। अथ तत्कृतेन तृतीयान्तकृतेन गुणवचनेनैव यथा स्याद् इह मा भूत् – अक्ष्णा काणः, तदयुक्तम् । अक्षि काणमस्येति अक्षिकाणः इति बहुव्रीहिणा भवितव्यमेव । यदि च अक्ष्णा काणः ‘अक्षिकाणः' इति भवति, तदा का वस्तुक्षतिः? न ह्यनयोरर्थभेदोऽस्ति, किञ्च तत्कृतत्वमस्त्येव । यथा गिरिणा काणः, तथा अक्ष्णापि, न ह्यचक्षुः काणो भवति। यथा 'धान्येन धनवान्, घृतेन पाटवम्' इति चेत्, नैवम् । सम्बन्धविवक्षया षष्ठीसमासेन भवितव्यमेव- घृतस्य पाटवं घृतपाटवमिति । यदि तत्र तृतीयासमासो भवति तदा