________________
कातन्त्रव्याकरणम्
का वस्तुक्षतिरिति। यथा “पूर्वसदृशसमासोनविकलकलहनिपुणमिश्रश्लक्ष्णैः” (अ० २।१।३१) इत्यादि न वक्तव्यमेव । ननु चान्यत्र भवतेः कृतशब्दस्य वा गम्यमानत्वात् करणे कर्तरि तृतीयाऽस्तु कथं 'पितृसदृशः, पितृसमः' इत्यत्र तृतीया? सत्यम् । तुल्यार्थे सहार्थभावनायां "तृतीया सहयोगे" (अ० २।३।२९) इत्यनेनैव तृतीया सिद्धा। ननु च सहार्थे तृतीयायाः समासो नाभिधीयत एवेति न हि भवति पुत्रेणागतः पुत्रागत इति। तत् कथमिदमुच्यते? सत्यम्। सदृशसमाम्यां भवति, अभिधानात् । अथवा षष्ठीसमासोऽयम्, यथा 'पितृतुल्यः' इति, तथा "कर्तृकरणे कृता बहुलम्" (अ० २।१।३२) इत्यपि न वक्तव्यम् । तत्र हि बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् इत्युक्तम् । ततो यथाभिधानमेवाश्रय इत्याह - तथेत्यादि । ‘राज्ञा हतः, नखैभिन्नः' इति विग्रहः । यथाक्रमं कर्तृकरणयोस्तृतीया । तथा "कृत्यैरधिकार्थवचने" (अ० २।१।३३) इत्यपि न वक्तव्यम् । स्तुतिनिन्दानिमित्तकम् अध्यारोपितार्थवचनमधिकार्थवचनम्, तस्य व्यभिचारात् । 'काकपेया नदी' इति पूर्णत्वोद्भावनं स्तुतिः निन्दार्थमध्यारोप्यते काकपेयत्वं नामेति । एवं 'बाष्पच्छेद्यानि तृणानि'। मृदुत्वोद्भावनं स्तुतिः, अयलच्छेद्यत्वं निन्दार्थमध्यारोप्यते । क्वचिन्न स्यादिति अधिकार्थवचनादन्यत्रेति भावः।
व्यभिचारमाह - क्वचित् स्यादिति । 'बुबैरुपेन्ध्यम्, घनेन घात्यम्' इति विग्रहः। इन्धेर्च्यण। हन्तेश्चेनन्तात् स्वराद् यः । न ह्यधिकार्थवचनमत्रावगम्यते । अथ "अन्नेन व्यजनम्, भक्ष्येण मिश्रीकरणम्" (अ० २।१।३४,३५) इत्यपि न वक्तव्यम्। सामान्येनैव सिद्धत्वाद् इदमुदाहरणद्वयं दर्शयति । दधना उपसिक्तः' इति। स्वभावादुपसिक्तादिक्रिया वृक्तावुक्तार्थेति न प्रयुज्यते । चतुर्थीत्यादि । हितादिभिस्तादर्थ्य एव चतुर्थ्याः । सम्प्रदानचतुझं अपि समासो दृश्यते इत्याह- देवदेयमित्यादि । तस्मात् "चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः" (अ० २।१।३६) इत्यापे न वक्तव्यम्, सामान्येन सिद्धत्वात् । यद्यपि तदर्थेन प्रकृतिविकारभावेन समासोऽयमिष्यते । यथा- 'यूपदारु, कुण्डलहिरण्यम्' इति । इह न भवति ‘रन्धनाय स्थाली, अवहननाय उदूखलम्' इति । तदप्ययुक्तमिति । एवं सति 'अश्वघासः, श्मश्रुक्षुरम् (श्वश्वम्बरम्), नाट्यशाला, रन्धनगृहम्, हस्तिपिधानम्' इत्यपि न सिध्यति प्रकृतिविकारभावस्याभावात् । 'अश्वघासः' इति षष्ठीसमासोऽयम्। यदाह भाष्यकार:- अश्वघासादयः षष्ठीसमासा भवन्तीति तर्हि रन्धनस्थाली, अवहननोदूखलम् इति न कथं षष्ठीसमासः । एवं च सति तस्मिंश्चतुर्थीसमासोऽप्यस्तु, विशेषाभावात् । यद्धि यदर्थं तत्तस्यापीति नार्थो भिद्यते।