________________
नामचतुष्टयाध्याये पचमः समासपादः ब्राह्मणार्थ इत्यादि । ब्रह्मणायायमियमिदमिति अर्थपदेन विग्रहः, अर्थशब्देनैवाभिहितत्वात् तादर्थे चतुर्थी न प्रवर्तते इति वाक्यनिवृत्तौ नित्यसमासः सिद्ध एव सर्वलिङ्गतेत्यपि न वक्तव्यम्। अर्थशब्दोऽयं यद्यपि पुंलिङ्गः उत्तरपदार्थप्रधानश्च तत्पुरुषः, तथापि समासे सति येन येनाभिधेयेन संबध्यते तस्य तस्य गुणवचनवल्लिङ्गमादत्ते स्वभावाद् इत्याह – नित्यसमासेत्यादि । पञ्चमीत्यादि । “पञ्चमी भयभीतभीतिनिर्गतेन चापेतापोटमुक्तपतितापत्रस्तैरल्पशः" (अ० २।१।३७-३८) इति न वक्तव्यम् । 'अधर्माज्जुगुप्सुः' इत्यादावन्यत्रापि पञ्चमीसमासस्य दर्शनाद् यद्यल्पशः इति वचनात् 'प्रासादात् पतितः' इति महतो न भवति, तदप्यनुचितम्, महतोऽपि दर्शनात् । यदाह मयूरभट्टः- 'भास्वद्ग्रावोद्गतेन' इति । न चाल्पविवक्षा मुक्तिमती 'देवदत्तात् पूर्वः' इत्यादौ सापेक्षत्वादेवासमासः ।प्रधानसापेक्षत्वेऽपि स्यादिति चेत् तथाप्यनभिधानादेव न भविष्यति षष्ठीत्यादि ।आत्मषष्ठः इत्यादि पूरणप्रत्ययान्तेनापि समासः, अभिधानात् । 'छात्राणां पञ्चमः' इत्यादिष्वनभिधानादेव न भवति । तथा गुणवचनेनापि समासः इत्याह-चन्दनेत्यादि । ‘ब्राह्मणस्य कर्तव्यम्' इति तव्येन तावद् वाक्यम् इष्यत एवेत्याह-वृत्तिरपीत्यादि । वाक्यमेवेति शन्तृङानशोरनभिधानमेव समासस्येत्यर्थः । तथेति वाक्यमेवेत्यर्थः । अथवा 'फलैस्तृप्तः' इति तृतीयासमासेन भवितव्यमेव । यदि षष्ठीसमासोऽपि स्याद् अस्तु तदा को दोषः । न खलु वस्तुभेदोऽस्ति । तथाऽव्ययेनापि । अर्थात् षष्ठीसमासो न भवतीत्याह- छात्रस्यादि ‘ब्राह्मणस्य कृत्वा' इत्यादावपि परकालापेक्षत्वान्न भवति । तस्मात् “पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन" (अ० २।२।११) इति प्रतिषेधो नाद्रियते। यदपि ‘बलाकायाः शौक्ल्यम्, काकस्य कार्ण्यम्' इति गुणेनोदाहृतम्, तदप्यनुचितम् । इह 'बलाकाशौक्ल्यम्' इत्यपि भवत्येव । तथा च कात्यायनः - तत्स्थैर्गुणैः षष्ठी समस्यते न तद्विशेषणैरिति । अस्यार्थः- गुणवचनैस्तत्स्थैः केवलगुणस्थैः षष्ठी समस्यते । यथा 'चन्दनगन्धः' । गन्धादयो हि केवलगुण एव वर्तन्ते न कदाचिद् गुणिनि । यदाह भट्टः
न कदाचित् प्रयोगोऽस्ति चन्दनं गन्ध इत्ययम् ।
चन्दनस्यैव गन्धो हि स्वप्रधानं प्रतीयते ॥ अतः शौक्ल्यादिशब्दोऽपि भावप्रत्ययान्तः केवलगुणवृत्तिरेवेति समासो न विहन्यते । तथा च भटेनैवोक्तम् -