________________
कातन्त्रव्याकरणम्
यदा गन्यादिभिस्तुल्या तेषामपि गुणस्थता।
भट्टशौक्ल्यादिवत् तेन समासोऽपि तदेष्यते ॥ तद्विशेषणैस्तु गुणगुणिस्थैः समासो न भवति । तथा ‘पटस्य शुक्लो गुणः' इति शुक्लादयो हि गुणयोगाद् गुणिनि वर्तन्ते, कदाचिद् गुणेऽपि । यदाह जयादित्यः -
कदाचित् कः प्रयोगोऽस्ति गोः शुक्लो गुण इत्ययम् ।
तेनैवमादिशब्देषु समासोऽपि निषिध्यते॥ न तु पटशौक्ल्यादिष्विति स्थितम् । सम्बन्धेत्यादि । योऽपि प्रतिपदविहिता षष्ठी न समस्यते इति वक्तव्यमाह-तेनापि सम्बन्धषष्ट्याः समासो द्रष्टव्य एव । अतः ‘पलाशशातनम्' इत्यादिषु “कर्तृकर्मणोः कृति नित्यम्, स्मृत्यर्थकर्मणि, स्वामीश्वर०" (अ० २।३।६५,५२,३९) इत्यादिना प्रतिपदविहिताया अपि षष्ठ्याः यदि समासः स्यात् तदापि न काचित् साध्यक्षतिरिति । ‘राजपूजितः' इति "क्तस्य वर्तमाने षष्ठी" (अ० २।३।६९) इति परः । इह संबन्धविवक्षयैव "ज्यनुबन्ध०" इत्यादिना वर्तमाने क्तः सप्तमीत्यादि। शौण्डादिभिरन्यैश्च शिष्टप्रयुक्तसमासों दृश्यते । सप्तमीति शौण्डादिभिरित्यनर्थकम् (इति न वक्तव्यम्) । तथेति । "सिद्धशुष्कपक्वबन्यैश्च" (अ० २।१।४१) इत्यपि न वक्तव्यम् इति भावः । तथा "ध्वाक्षेण क्षेपे" (अ० २।१।४२) इत्यपि न वक्तव्यम् । ध्वाङ्क्षपर्यायेणापि क्षेपे समासोऽभिधानादित्याह - तीर्थेत्यादि । उपमानेन क्षेप इह गम्यते। तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । यथा तीर्थे ध्वाङ्क्षश्चिरं स्थाता न भवति, तद्वद् यः कार्यं प्रत्यस्थिरः स एवमुच्यते इत्यर्थः क्षेपादन्यत्र न भवति । तीर्थे ध्वाङ्क्षस्तिष्ठति । तथेति कृत्यप्रत्ययान्तेनापि समासो भवत्येव । यथा पूर्वाह्ने गेयम् इति नियोग उपलक्ष्यते । तथा ऋणेऽपीति "कृत्यैणे" (अ० २।१।४३) इत्यपि न वक्तव्यम् । पूर्वाह्नेत्यादि । पूर्वं च तदहश्चेति अपरा चासौ रात्रिश्चेति विग्रहः, राजादित्वादत् । णत्वविधौ "अहोऽदन्तात्" (अ० ८।४।७) इति दर्शनात् 'पूर्वाह्न ः' इति णत्वम् । अथेह कथन्न भवति अह्नि कृतम्, रात्रौ कृतमिति । तस्मात् "क्तेनाहोरात्रावयवाः" (अ० २।१।४५) इति वक्तव्यम्। यद्येवं कथं 'रात्रिकृतम्, दिवसकृतम्' इति करणविवक्षायां तृतीयासमासः। यदाह-अन्यजन्मकृतम् इति चेत् तर्हि विशेषवचनेन, न हि सप्तम्यास्तृतीयाया वा समासे कश्चिदर्थभेदोऽस्ति । तत्रशब्दः