________________
३०४
कातन्वव्याकरणम्
पाठ इति । शरणदेवस्तु - अत्रापि समासो भवत्येव । केचित्तु अर्जुनशब्दस्य प्रधानत्वात् कार्तवीर्यस्य वाचकोऽर्जुन इति षष्ठीसमासे द्विरेफादिवदभिधानाभिधेययोरभेदोपचाराद् द्रव्याभिधानम्, अतो बाहुसहनभृद् इत्यादिनाऽन्वय इत्याहुः । ___इदानीं पनी व्याख्यायते - ननु तुलया संमितं परिमितं तुल्यं तदेवाधिकरणमर्थो ययोरित्युक्ते पलकर्षावित्यत्र संज्ञेयं स्याद् इति चेत्, अत्र परत्वाद् द्वन्द्वसंहवास्ति बाधिकेति । तथापि 'पलघृतम्' इत्यादिष्वेव स्यात् परिमाणार्थत्वात्, न नीलोत्पलमित्यादौ । नैवम्, योगार्थापेक्षया रूढ्यर्थस्य शीघ्रोपस्थितत्वाद् व्याप्तिन्यायाच्च एकार्थ एवात्र तुल्यशब्द इति हदि कृत्वाह - तुल्येति । तदर्थस्याघटनादिति नीलोत्पलादीनामपि साध्यत्वेनोपस्थित्वात् तेषु तदर्थस्य सम्मितार्थस्याघटनादित्यर्थः । यद् वा "नस्य तत्सुरुषे लोप्यः" (२।५।२२) इत्यादिसूत्रस्य वैफल्यादिति भावः । नन्वधिकरणशब्दस्याधारार्थत्वात् सर्वेषामेव पदानामाश्रयस्याकाशस्यैकत्वात् तुल्याधिकरणग्रहणं व्यर्थमेव स्यात्, व्यावृत्तेरयोगाद् इत्याह - अधिक्रियते इत्यादि ।अभिधानायार्थप्रतिपत्तये इत्यर्थः । तुल्यम् अधिकरणं ययोः पदयोरित्यर्थः । ननु तुल्यम् अधिकरणं ययोरर्थयोरिति आर्थिकाधारः कथन्न गृह्यते इति चेत्, ‘पदे'.इत्यस्यानन्वयान्न हि द्वे पदे इत्यर्थौ भवतः । अथ तुल्यार्थवाचकत्वात् पदद्वयस्यापि तुल्यार्थतेति वक्तव्यम् ? सत्यम् । तथापि न घटते । तथाहि नीलोत्पलपदेन पञ्च वस्तून्युपस्थाप्यन्ते । तत्र नीलपदेन नीलगुणाश्रया जातिः, नीलो गुणः, नीलगुणविशिष्टं द्रव्यमिति त्रीणि, उत्पलशब्देन चोत्पलत्वं जातिः, तद्विशिष्टं च द्रव्यमिति द्वे । न तावन्नीलत्वोत्पलत्वजात्योरैकाधिकरण्यम्, असंभवात् । यतो नीलत्वं गुणे, उत्पलत्वं च द्रव्ये कयमेकाधारता तयोरिति । तथा नीलगुणोत्पलद्रव्ययार्न संभवति । यतो नीलगुणो द्रव्ये, उत्पलं च द्रव्यं द्रव्यान्तरे आकाशादौ । तथा नीलगुणविशिष्टद्रव्योत्पलद्रव्ययोःकाधिकरण्यं संभवति आधारभूतस्य तृतीयवस्त्वन्तरस्यासंभवात् । केवलं नीलगुणोत्पलत्वजात्गेरेकस्मिन्नेवोत्पलद्रव्ये समवायाद् ऐकाधिकरण्यं संभवति । किन्तु विशेषणविशेष्यभावस्य विरहादेवोपेक्ष्यते । तथाहि युक्तार्थः समासः, स च विशेषणविशेष्यभावलक्षण इत्युक्तम् । न चात्र नीलगुणविशिष्टमुत्पलत्वमिति जातेरनीलत्वात् । तस्माद् वाच्यवाचकसंबन्धेन शब्दल्यार्थे वर्तमानत्वात् शाब्द्यमधिकरणमेव गृह्यते इति पञीकृतामाशयः । एतेन भिन्नप्रवृत्तिनिमित्तत्वे सति एकार्थप्रयुक्तत्वं सामानाधिकरण्यमिह विवक्षितमिति । ननु अन्यूनानतिरिक्तार्थवाचकस्य वृक्षो महीरुह