________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
पदद्वयस्य
F
समासे द्वे पदे तुल्याधिकरणे भवतः स कर्मधारय इत्युच्यते, तदा आरूढो वानरोऽयं सः ‘आरूढवानरो वृक्षः' इति बहुव्रीहिस्थलेऽपि आरूढवानरयोर्भिन्नप्रवृत्तिनिमित्तत्वेनैकार्थत्वात् कथं कर्मधारयसंज्ञा न स्यात् ? सत्यम्, यस्य समासस्तत्पदद्वयोपस्थाप्यार्थो यदि समासवाच्यः स्यात् तदैवायं समासविधिरिति व्याख्येयम् । बहुव्रीहौ तु अन्यपदार्थस्य वाच्यत्वम्, न तत्पदद्वयार्थस्येति कुतः प्रसङ्गः । यद्येवं ‘राज्ञः पुरुषः' इत्यत्र राजसम्बन्धिपुरुषस्य प्रतिपाद्यत्वेन द्वयोः पदयोस्तुल्याधिकरणत्वात् संज्ञेयं प्रवर्तताम् । नैवम्, अत्र षष्ठ्या स्वामित्वरूपसंबन्ध एव प्रतिपाद्यते, न तु संबन्धीति नास्ति तुल्याधिकरणता । यत्तु राजसम्बन्धिपुरुष इति विशिष्टार्थप्रतीतिः, तत्तु वाक्यार्थवशादेव | यदपि " शेषाः" इत्यत्र स्वाम्यादावित्युक्तं तत्र स्वामीत्यादावित्येव तस्यार्थः । नैयायिकास्तु एकार्थवाचकैकविभक्तिमत्त्वमेव शाब्धं सामानाधिकरण्यमिति रूढम् | प्रकृतेस्तु षष्ठ्या सम्बन्धिन उक्तार्थत्वात् प्रथमायाश्च लिङ्गार्थमात्रे विधीयमानत्वान्नास्त्येकार्थवाचकैकविभक्तिमत्त्वमित्याहुः । तन्न, 'विद्वन्मानिनी' इत्यत्र तुल्याधिकरणत्वाणिनि पुंवद्भाव इति वचनानुपपत्तेः । 'कालीम्मन्या' इत्यादौ पुंवद्भावबाधनार्थं 'विवक्षितकर्तृकर्मैकवस्तुप्राप्तं पुंवद्भावं बाधते, परत्वात्' इति वृत्तिकृतो यत्नान्तरानुपपत्तेः अत्र 'मन्या' इत्यस्य प्रथमान्तत्वात् कालीमित्यस्य द्वितीयान्तत्वादेव न तुल्याधिकरणत्वमिति अस्यैव वक्तुमुचितत्वात् । तस्माद् भिन्नविभक्तिमत्त्वेऽपि यत्रैकार्थप्रतीतिस्तत्रापि तुल्याधिकरणत्वमस्त्येव । अथ तर्हि पट्ट्ट्या अभिनेति समासे सति एकार्थवाचकत्वात् पुंवद्भावः स्यादिति चेत्, भवत्येव पुंवद्भाषितपुंस्केत्यनेन पुंवद्भाव इति को विरोधः । ननु 'कठ्या अभिन्ना' इत्यादौ कव्यभिन्नाशब्दयोरेकार्थपर्यवसाने सति तुल्याधिकरणत्वात् कर्मधारयसंज्ञायां सत्यामेतत्संज्ञानिमित्तकपुंवद्भावः स्यात् । नैवम्, 'पदे' इत्यनेनात्र विभक्त्यन्तपदद्वयस्य लाभादौचित्येनैकविभक्त्यन्तपदद्वयस्यैव समासोऽयमिति । तेन 'राज्ञः पुरुषः' इत्यत्रापि न पूर्वपक्षावस:, [तेन 'कठ्या अभिन्ना' इत्यत्रापि न पुंवद्भावस्यावसरः ।] श्रीपतिस्तु " कारयति यः स हेतुश्च" (२।४।१५) इत्यत्र चकारेण ज्ञापितम् - क्वचित् संज्ञयापि संज्ञान्तरं बाध्यते । तेन ‘राज्ञः पुरुषः इत्यत्र तत्पुरुषसंज्ञैवास्ति बाधिका' इत्याचष्टे । अस्मिन्मतं बहुव्रीहावप्ययमेव सिद्धान्तः । दुर्गमते तु चकारस्य सुखार्थतया उक्तत्वात् सामर्थ्यं नोपपद्यते इति दिक् ।
३०३
'अर्जुनः कार्त्तवीर्यः' इति वृत्तिः । ननु कथं 'कार्त्तवीर्यार्जुनो नाम राजा बाहुसहस्रभृत् ' इत्यत्र समासो दृश्यते ? सत्यम् | अपपाटोऽयम् । इलोके 'कार्त्तवीर्योऽर्जुनो नाम ' इत्येव