________________
कातन्त्रव्याकरणम्
द्वयमप्येतद् ब्राह्मणशब्दप्रयोगे कारणम् । तत्र सम्यग्ज्ञानपूर्वके ब्राह्मणशब्दप्रयोगे नास्तीति नञो व्यापारः । न हि तेन तत्र किञ्चित् क्रियते ब्राह्मणशब्दस्य यथार्थ - `विषयत्वेन तदर्थस्य प्रतिषेद्धुमशक्यत्वात् । मिथ्याज्ञानपूर्वके त्वस्ति नञो व्यापारः । तत्र हि तेन ब्राह्मणशब्दस्य मिथ्याज्ञानप्रभवत्वमाख्यायते । स च नञ् द्विविधः - पर्युदासवृत्तिः, प्रसज्यवृत्तिश्च । तत्राद्ये पक्षे ब्राह्मणसदृश एव क्षत्रियादिरब्राह्मण इत्युक्ते प्रतीयते । द्वितीये तु मिथ्याज्ञाननिवृत्तिरेव । ब्राह्मणोऽयं न भवतीत्यब्राह्मण इति ब्राह्मणत्वेनाध्यासितो न भवतीत्यर्थः। तच्च मिथ्याज्ञानम् इन्द्रियहेतुकं सादृश्यमन्तरेण न संभवतीत्यर्थात् सदृशप्रतिपत्तिः, तद्गते च लिङ्ग्ङ्गसंख्ये भवतः । तथा चोक्तम् – “नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः” (कात० प० ४९) इति, तदेवम् उभयपक्षेऽपि पूर्वपदार्थस्य प्राधान्यम् । तद्वशेन सदृशस्य निवृत्तेश्च प्रतीयमानत्वात् ।
३०२
एवं च सति न सतः प्रतिषेधो नाप्यसतः, किन्तु भ्रमादतस्मिंस्तदिति प्रयुक्तस्य ब्राह्मणशब्दस्यार्थः प्रतिषिध्यते इति कथं तृतीयप्रकाराभावः । युक्तार्थत्वात् तेनैव समासः ।तुल्याधिकरणत्वाच्चानेन कर्मधारयः । भिन्नाधिकरणे त्वव्ययीभावः, ब्राह्मणस्याभावोऽब्राह्मणम् इति स्थितम् । समासस्तद्धितश्चैव सुखप्रतिपत्त्यर्थम् अनुष्टुब्बन्धेन विरचित इत्यत्र विज्ञेयग्रहणम् । एवम् उत्तरेष्वपि योगेषु शब्दलाघवं न चिन्तनीयम्, अर्थप्रतिपत्तिलाघवस्य शर्ववर्मणोऽभिप्रेतत्वाद् इति || ३४२ |
[क० च०]
पदे० । यद्यपि दृष्टानुवृत्तिकतयाऽत्र । युक्तार्थ एवानुवर्तितुम् उत्सहते, तथापि " पदे द्वे” (२ । ५ । ९) इति वचनात् सर्वथा समास एव पर्यवस्यतीति स एवानुवर्तिष्यते, न च-युक्तार्थमात्रम् । स च प्रथमान्तोऽप्यर्थवशात् सप्तम्यन्ततया विपरिणमते इत्याहयत्र समासे द्वे पदे इति वृत्तिः । ननु तदेव तुल्याधिकरणपदद्वयं यदेव समात्ताख्यम्, तत् कथं भेदनिबन्धनेनाधाराधेयभावेनान्वयः ? सत्यम् । 'नहीं: शिरः' इत्यादिवद् अभेदेऽपि भेदबुद्धिमारोप्येदमुक्तमिति न दोषः ।
-
वस्तुतस्तु (यद् वा) नाम्नां समूहस्य समाससंज्ञाविधानात् समूहसमूहिनोराधाराधेयभावः सुतरामस्त्येव । ततश्च यत्र समासे नामसमूहे तुल्याधिकरणं पदद्वयं भवति स कर्मधारय इति न दोषः । यद् वा समसनं समाराः संक्षेप एकार्थीभावापन्न इति यावत् । तत्र चतु तुल्याधिकरणपदद्वयं भवति, स कर्मधारयः । ननु यदि यत्र