________________
नामचतुष्टयाभ्याये पनमः समासपादः जरती चेति अर्धजरती, तत्र भवम् अर्धजरतीयम्, अभिधानाद् ईयः । न ह्यत्रार्धशब्दः समप्रविभागे वर्तते । एवमित्यादि । इहापि भिक्षैकदेशे भिक्षाशब्दः, ततो द्वितीया चासौ भिक्षा चेति द्वितीयभिक्षा, भिक्षाया द्वितीयो भाग इत्यर्थः । पक्षे षष्ठीसमासस्तु पूरणप्रत्ययान्तेनापि सिद्ध एव, प्रतिषेधाभावाद् इति । "द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्" (अ० २।२।३) इति न वक्तव्यमेव । तुरीयशब्देनापि समासो दृश्यते इति परसूत्रस्य न्यूनतां दर्शयति । तुरीयभिक्षेति । चतुर्णां पूरणस्तुर्यस्तुरीय इति चतुरो यदीयौ च लोपश्च तमादित्वात् कालवाचिनः शब्दाः परिमाणवचनाः प्रथमान्ताः परिमाणिना षष्ट्यन्तेन क्तेन समस्यन्ते । यथा मासो जातोऽस्य 'मासजातः' इति कश्चिदाह । तथा च परसूत्रम् "कालाः परिमाणिना क्तेन" (अ० २।२।५) इति । तदिह कथमित्याह - मासजात इत्यादि । मासो जातोऽस्य, संवत्सरो जातोऽस्येति विग्रहः । यस्य जातस्य मासः परिमाणं तस्य मासोऽपि जातः सम्पन्न इत्यर्थोऽपि न भिद्यते । कथम् अन्यथा मासः परिमाणं स्यादिति भावः । बहुव्रीहौ जातशब्दस्य विशेषणत्वात् पूर्वनिपातप्रसङ्ग इत्यपि न वक्तव्यम् | जातिकालसुखादिभ्यः क्तान्तस्य बहुव्रीहौ परनिपात एवाभिधानात् । अथ वचनादृते जातस्य मासः इति षष्ठीसमासः कथं न भवतीति चेत्, नैवम् । यत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावस्तत्र षष्ठीसमासः, यथा 'राजपुरुषः' इति । तथाहि राजा स्वाम्यन्तराद् व्यवच्छिद्यते, पुरुषश्च स्वान्तरात् । इह तु मासपरिमाणिनो जातस्य मासं परित्यज्य न परिमाणान्तरेण संबन्धः, नापि तं परिमाणिनं विहाय तदीयो मासः परिमाणम् अन्येन सम्बन्धिना (परिमाणिना) सह संबध्यते इति नास्ति व्यवच्छेद्यव्यवच्छेदकभावः । वाक्यं तु स्वरूपानुवादकतया प्रयुज्यते । अब्राह्मण इति । अथायं नञ् प्रतिषेधवचनः, स किं सतः प्रतिषेधं प्रतिपादयति, आहोस्विद् असतः ? न तावत् सतः, तस्याशक्यसाधनत्वात् । यद्येतन्नञः सामर्थ्यं स्यात् तदा न केचिद् राजानः हस्त्यश्वादीन् बिभृयुः । न सन्ति मे शत्रवः इत्येवं ब्रूयुः । नाप्यसतः, तस्य स्वत एव प्रतिषिद्धत्वात् । न च सदसद्भ्याभपरः प्रकारोऽस्ति , यत्र नञो व्यापारः । तदुक्तम् -
सतां न प्रतिषेधोऽस्ति सोऽसत्सु च न विद्यते ।
जगत्यनेन न्यायेन नञर्थः प्रलयं गतः॥ इति । नैतदेवम्, सर्वो हि शब्दः प्रयोगं प्रति स्वार्थे प्रयोक्तुनिमपेक्षते । स्वय हि ज्ञातमर्थं परं प्रतिपादयितुकामेन शब्दः प्रयुज्यते । तच्च ज्ञानं द्विविधम् - सम्यग् मिथ्या च |