________________
३००
कातन्वष्याकरणम्
यदाह जयादित्यः- अवयवधर्मेण (द्वारेण) कृष्णशब्दः समुदाये वर्तमानः समानाधिकरणो भवतीति । शुक्लशुक्ल इति अतिशयशुक्ल इत्यर्थः । कुमारी चेत्यादि । तुल्याधिकरणत्वात् पूर्वणैव समासो यथासंभवं पुंवद्भावश्चेति । “कुमारः श्रमणादिभिः" (अ० २।१।७०) इत्यपि न वक्तव्यम् । चतुष्पादो गर्भिण्या समस्यते, अभिधानादित्याह - 'गोगर्भिणी' इत्यादि । अन्यत्र न भवति - ब्राह्मणी गर्भिणी | जातिवचनस्यैवेष्यते, तेन काणाक्षी गर्भिणी, काणे अक्षिणी यस्या इति विगृह्य "सक्थ्यक्षिणी स्वा३" (२।६।४१५०) इति राजादित्वाद् अत् । ततः स्त्रियामीप्रत्ययः । मयूर इवेत्यादि । विगतावंसावस्येति व्यंसकः । मयूर इव मयूरः, ततो मयूरश्चासौ व्यंसकश्चेति विग्रहः । अथवा नेहादृतः स्वरविशेष इति बहुव्रीहिणापि सिध्यति इत्याह - मयूरस्यैवेत्यादि । तेन "मयूरव्यंसकादयश्च" (अ० २।१।७२) इति न वक्तव्यम् । पूर्वश्चासावित्यादि । ननु कथमत्र सामानाधिकरण्यम्, यावता पूर्वादिशब्दः एकदेशवचनः कायशब्दश्चैकदेशिवचनः । ततः षष्ठीसमासः प्राप्नोति । पूर्वापराधरोत्तरोत्तमान्येकदेशिनैकाधिकरणेनेति न वक्तव्यम् इत्याह – कायैकदेशे काय इति ।
यथा ‘ग्रामो दग्धः, पटो दग्धः' ग्रामाद्येकदेशे ग्रामादिशब्दस्तद्वदिहापीति भावः । अथ षष्ठीसमासापवादवचनमन्तरेण कायस्य पूर्वमित्यत्र षष्ठीसमासः कथन्न स्यात् । कायस्य पूर्व किं तदूर्ध्वमिति पूर्वशब्दस्य सापेक्षत्वाद् इत्यपि वक्तुं न युज्यते, प्रधानसापेक्षत्वेऽपि समासस्य दर्शनात् । यथा 'राजपुरुषः शोभनः' इति ? सत्यम्, तथाप्यनभिधानादेव न भविष्यति । मध्यकाय इत्यादिना सर्वस्यैकदेशवचनस्य समासं दर्शयन् परसूत्रस्य विशेषविधानमनर्थकमिति सूचयति । मध्याह्न इति । मध्यं च तद् अहश्चेति विगृह्य राजादित्वात् "नस्तु क्वचित्" (२।६।४५) इति नलोपो न भवति, तत्र क्वचिद्ग्रहणात् । समप्रविभागवृत्तिरर्द्धशब्दो नपुंसकलिङ्गः पूर्वेणैव समस्यते । तथा एकाधिकरणत्वाच्च कर्मधारयः । ततः "अर्थ नपुंसकम्" (अ० २।२।२) इति न वक्तव्यम् इत्याह - अर्धं च तदित्यादि । अत्रापि पिप्पल्येकदेशे पिप्पलीशब्दः । अथान्तरेणैतद् वचनं षष्ठीसमासोऽपि स्याद् इति चेत्, इष्यत एवेत्याह - पिप्पल्यमिति।दृश्यते हीत्यादिना अभ्युपगतं षष्ठीसमासमेव शिष्टप्रयोगानुसारेण द्रढयति । अथ असमप्रविभागवृत्तेरर्धशब्दस्यानपुंसकलिङ्गस्य कर्मधारयो मा भूद् इत्येतदर्थं सूत्रं वक्तव्यम् । यथा ग्रामाझे नगरार्द्ध इति । तदप्ययुक्तमित्याह - असमेत्यादि । अर्धा चासौ