________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
यदप्युक्तम् – पूज्यमानमिति किम्, सुषीमो नाग इति । इहापि संज्ञायाम् अभिधानमेव समासस्येति ।‘कतरकठः, ,कतमकठः' इति, अभिधानात्, “कतरकतमौ जातिपरिप्रश्ने” (अ० २।१।६३) समस्येते, अन्यत्र न भवति । भवतोर्मध्ये कतरो देवदत्तः, कतमो देवदत्तो भवतामिति । किंराजेति, कुत्सितो राजा । किं राजा यो न रक्षति प्रजा इति क्षेपो गम्यते । समासान्तविधेरनित्यत्वात् किमः क्षेपेऽदन्तता नास्ति । 'को राजा पाटलिपुत्रे' इति क्षेत्रादन्यत्र न भवति, सापेक्षत्वात् । तस्मात् " किमः क्षेपे" (अ० ४ / ५ / ७० ) इति न वक्तव्यम् ।
२९९
इभ्यपोटेत्यादि । इभमर्हतीत्यर्थे दण्डादिभ्यो यप्रत्ययो दृश्यते । इभ्या चासौ पोटा चेति विग्रहः । पोटा उभयव्यञ्जिका । एवमिति । दधिकतिपयादीनां विशेषणं परमित्यर्थः । गृष्टिरेकवारप्रसूता धेनुः प्रत्यग्रप्रसूता | वशा बन्ध्या । वेहद् गर्भोपघातिनी । बष्कयणी तरुणवत्सा । पोटादिभिः पूर्वेणैव जातिः समस्यते इति । " पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तेर्जातिः" (अ० २ ।१ । ६५) इत्यपि न वक्तव्यम् । अजातिवचनस्य तु न भवति, अनभिधानात् । देवदत्तप्रवक्तेति प्रवक्तृदेवदत्त इति नीलोत्पलवद् भवत्येव । एवं प्रशंसावचनैश्च रूढैर्नियतलिङ्गसंख्याकैः प्रकाण्डादिभिर्जातिः समस्यते इति दर्शयति । 'गोप्रकाण्डम्, अश्वमतल्लिका' इति । गौश्चासौ प्रकाण्डं चेति, अश्वश्चासौ मतल्लिका चेति विग्रहः । तथा स्त्रीलिङ्गोऽपि युवन्शब्दः' खलतिपलितबलिनजरद्भिः समस्यते इत्यपि न वक्तव्यम् इत्याह-युवखलतिरित्यादि । युवा चासौ खलतिश्चेति विग्रहः । एवं युवतिश्चासौ खलती चेति विग्रहे “पुंबद् भाषित०” (अ० ६ | ३ | ३४ ) इत्यादिना पुंवद्भावे “ यूनस्तिः " ( अ० ४ | १।७७) इति युवन् शब्दात् स्त्रियां विहितस्तिप्रत्ययो निवर्तते । एवमन्यत्रापि वेदितव्यम् । तथा “कृत्यतुल्याख्या अजात्या” (अ० २ । १ । ६८) समस्यन्ते, अभिधानाद् इत्याह-भोज्योष्णम् इत्यादि । जात्या तु 'भोज्य ओदनः' इति वाक्यमेव । तथा " वर्णो वर्णेन" (अ० २।१।६९) इति न वक्तव्यम्, पूर्वेणैव सिद्धत्वाद् इत्याह- शुक्लकृष्ण इत्यादि । अवयवधर्मेण समुदायो व्यपदिश्यते । शुक्लावयवसंबन्धात् शुक्लः, कृष्णावयवसंबन्धात् स एव समुदायः कृष्ण इति । तुल्याधिकरणत्वात् शुक्लश्चासौ कृष्णश्चेति विग्रह: ।
१. युवा खलतिपलितवलिनजरतीभिः (ऊ० २।१।६७) ।