________________
२९८
कातन्त्रव्याकरणम् न वक्तव्यम्, नीलोत्पलवत् पूर्वेणैव सिद्धत्वादित्याह - तथेति । एवमिति च्व्यर्थवृत्तयः "श्रेण्यादयश्च कृतादिभिः" (अ० २।१।५९) तेनैव समस्यन्तेऽभिधानात् । तथाहि श्रेण्यादयः कृतादयश्चाकृतिगणत्वाद् गणपरिपठिता अपि अभिधानाद् वेदितव्याः इत्यभिधानमेवाश्रयः । च्व्यन्तानां तु नित्यसमास एव श्रेणीकृता इति । तथेति । "क्तेन नविशिष्टेनानञ्" (अ० २।१।६०) इति न वक्तव्यम् इत्यर्थः । कृताकृतमिति | कृतं च तदकृतं चेति विग्रहः । कृतावयवसंबन्धात् कृतम् । अकृतावयवसंबन्धादेवाकृतमिति तुल्याधिकरणता । भवति हि अवयवधर्मेण समुदायव्यपदेशः । यथा ‘काणो देवदत्तः, कुब्जो देवदत्तः' इति । अथवा यदर्थं कृतं तत्रासमर्थत्वात् तदेवाकृतम् | यथा पुत्रकार्याक्षमत्वात् पुत्रोऽप्यपुत्र उच्यते लोके । तथा "भुक्तापभुक्तादीनामुपसंख्यानम्" इत्यपि न वक्तव्यम् इत्युपलक्षणमाह - भुक्तापभुक्तमित्यादि । एकदेशस्येष्टस्य भुक्तत्वाद् भुक्तम्, अनिष्टस्य चैकदेशस्यापभुक्तत्वात् तदेवापभुक्तमिति । भुक्तं च तदभुक्तं चेति विग्रहः।
एवं गतं च तत् प्रत्यागतं चेति । गतं च तत् पूर्वम् अनुगतं चेति पश्चादिति क्रियाप्रतिबन्धरूपत्वात् । अशितं च तद् अभ्यवहृतत्वाद् अनशितं च तदशितकार्याकरणात् कुत्सितत्वाद् वा । क्लिष्टं च तद् दुःखहेतुत्वाद् अक्लिशितं च तत् सफलत्वात् । महान् यः स क्रय उच्यते । स्वल्पा च क्रयिका, क्रयावयवसंबन्धात् क्रयः, क्रयिकावयवसंबन्धाच्च स एव समुदायः क्रयिका । तथा क्रयश्चासौ क्रयिका चेति विग्रहे ह्रस्वस्य दीर्घता | तथा फलाफलिकेत्यादि । तथा "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः" (अ० २।१।६१) इत्यपि न वक्तव्यम् । पूर्वेणैव सिद्धत्वाद् इत्युदाहरति सत्पुरुष इत्यादि । तथान्तरेणैतद् वचनम् ‘उत्कृष्टो गौः कर्दमाद् उद्धृतः' इत्यत्र कथन्न भवति ? सत्यम् । इहाप्युत्कृष्टगव इति भवत्येव समासे केवलं पूज्यमा तैवाभिधीयते नोद्धृतत्वम् । किञ्च पूज्यमानतामन्तरेणापि समासो दृश्यते । यथा 'महाजनः, महोदधिः' । न ह्यत्रोत्तरपदस्य पूजा गम्यते । अपि तु प्रमाणातिशयः । अभिधानात् क्वचिद् विशेषणं परं स्यादित्याह – पुरुषोत्तम इत्यादि । पुरुषेषूत्तम इति सप्तमीसमासो वेति वाशब्देन सूच्यते । तदा वृन्दारकादीनामुपमानतया पूजावचनानां विशेषणत्वेऽपि परत्वम् अभिधानाद् इत्याह – गोवृन्दारक इत्यादि । गौश्चासौ वृन्दारकश्चेति गोवृन्दारकः, प्रशस्ता गौरित्यर्थः । तेन "वृन्दारकनागकुजरेः पूज्यमानम्" (अ० २।१।६२) इति नाद्रियते ।