________________
नामचतुष्टयान्याये पनमः समासपादः
२९७ इषुकामशमी चेति विग्रहः । संज्ञेयमिति प्राच्यदेशे ग्रामोऽयम् । संख्यापूर्वपदेऽपीति संज्ञायामेव नित्यसमासश्चायं नहि वाक्येन संज्ञा गम्यते । वाक्यं तु सुखार्थमुपदिश्यते । अथान्तरेणैतद् वचनम् ‘उत्तरा वृक्षाः, पञ्च ब्राह्मणाः' इत्यसंज्ञायामपि कथं न भवति । यद्येवं सत्यपि वचने कथं पूर्वपुरुष इत्यादावसंज्ञायां समास इति । अभिधानादिति चेत् तदेवास्तु किं विशेषवचनेन तस्य व्यभिचारात् । अभिधानादेव क्वचिन्न भविष्यति । तथेत्यादि । तुल्याधिकरणत्वादित्यर्थः ।
कितवो द्यूतकारः स हि किन्तवास्तीति धनमेवापेक्षमाणो द्यूते प्रवर्तते न जात्यादिकम्, तद्वद् अयाज्ययाजनेऽपि प्रवर्तमानः कितव इव कितवः । ततो याज्ञिकश्चासौ कितवश्चेति तुल्याधिकरणत्वमस्ति न चात्र याज्ञिकशब्दस्य परनिपातप्रसङ्गश्चोदनीयः, तस्य विशेषणतयाऽभिधीयमानत्वात् कः कितवो याज्ञिक इत्यर्थः । "कुत्सितानि कुत्सनैरेव" (अ० २।१।५३) समस्यन्तेऽभिधानादिति । तथा "पापाणके कुत्सितैः" (अ० २।१।५४) इत्यपि न वक्तव्यम् इत्याह - एवमिति क्वचिदित्यादि। क्वचिद् इत्यनेन लक्ष्यानुरोधं सूचयति ।तेन "उपमानानि सामान्यवचनैरेव" (अ० २।१।५५) समस्यन्ते इति न वक्तव्यम् । शस्त्रीव श्यामेति । नेदं समासयोग्यं वाक्यं त्रिपदत्वाद् भिन्नाधिकरणत्वाच्च । किन्तूपमानोपमेयभावकथनं दर्शितम् । यथा तु शस्त्रीशब्दः श्यामगुणसाधात् स्त्रियां वर्तते शस्त्रीव शस्त्री तदा शस्त्री चासौ श्यामा चेति वाक्यम् । इह श्यामगुणस्योभयनिष्ठत्वात्तद्वाचकः श्यामशब्दः सामान्यवचन इति जातिवचनैर्न भवति । फाला इव तण्डुला इति । तथा "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" (अ० २।१।५६) इत्यपि न वक्तव्यम् इत्याह - क्वचिदित्यादि । नेह विशेषणं पूर्वमिति सूत्रमुक्तम् । अपि तु 'नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते' इति बुद्धिरेव तथेत्युक्तम् । सा पुनरन्यथैव क्वचिद् गमिकेति गमकत्वाद् विशेषणं परं स्यात् । ___अथवा पूर्ववद् व्याघ्रादय एव विशेष्यतयाभिधीयन्ते । पुरुषश्चासौ व्याघ्रश्चेति विग्रहः । पुरुषो व्याघ्र इवेत्युपमानोपमेयभावप्रदर्शनमेतत् । एवमन्यदपि । न चात्र व्याघ्रादिगणकृतविशेषोऽस्ति । व्याघ्रादिभिरन्यैश्च समासोऽभिधीयत एव । यदाह जयादित्यः-आकृतिगणश्चायमिति । तस्मादभिधानमेव युक्तम् । यदपि सामान्याप्रयोग इति किं पुरुषो व्याघ्र इव शूरः इति, अत्रापि शूरादिपदापेक्षत्वादसामर्थ्यमिति कुतः प्राप्तिः । एवम् “पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च" (अ०२।१।५८) इति