________________
कातन्त्रव्याकरणम् शब्दान्तरेऽपि चैकत्वमुपाश्रित्य विचारिणा। अब्राह्मणादिषु नञः प्रयोगो न बिहन्यते ॥
(वा० ५० ३।१४।२५१) । वृत्तिशब्दान्तरमन्वाख्यानसमयेऽप्येकत्वमुपाश्रित्य परपदार्थप्रधान इति विचारणा । स्वभावात् पुनः समुदायः क्षत्रियाद्यभिधायीति । एवं च सर्वत्र पक्षे वाक्येऽप्येकत्वाध्यारोपाद् अनेकमित्येकवचनम् । बहुत्वं त्वयातमेव प्रतीयते । कथमेतत्, 'कयं न्चमी सन्ततमस्य सायका भवन्त्यनेके जलरिवोर्मयः' इति । अथ न विद्यते एकमेषामिति बहुव्रीहिः । तदोपसर्जनत्वादिकारो न स्यात् । एकशब्दोऽयमन्यार्थ इति वाक्यार्थो न घटते । तस्मात् प्रमादपाठ एव । असंबद्धै (असमर्थे)- रपि कश्चित् समासो दृश्यते । सूर्य न पश्यन्ति असूर्यम्पश्यानि मुखानि । न पुनर्गीयन्ते अपुनर्गेयाः श्लोकाः। श्राद्धं न भुङ्क्ते अश्राद्धभोजी | सत्यपि गमकत्वेनाभिधीयते समासः । यथा किञ्चिन्न कुर्वाणं मासं न हरमाणं गवां नोत्सृष्टमिति अकिञ्चित्कुर्वाणम्, अमांसहरमाणम्, अगवोत्सृष्टमिति करोत्यादिभिरेव नञः संबन्धाद् एवम् उदाहरणभूयस्त्वमुपवर्णितमिह प्रपञ्चार्थमेवेति ।।३४२ ।
[वि० प०]
पदे० । इह तुल्यशब्दोऽव्युत्पन्न एकपर्यायः । यथा-देवदत्तयज्ञदत्तयोस्तुल्या माता एका मातेत्यर्थः । न पुनस्तुलया संमितं तुल्यम्, तदर्थस्याघटनाद् इति । अधिक्रियते नियुज्यते शब्दोऽस्मिन्नभिधानायेत्यधिकरणमर्थः ।तुल्यम् अधिकरणं ययोरिति विग्रहः । नीलोत्पलमिति । नीलं विशेषणम्, उत्पलं विशेष्यम् । अनयोर्विशेषणविशेष्ययोर्व्यवच्छेद्यव्यवच्छेदकभावेनैकस्मिन्नर्थे प्रयोक्तृभिः प्रयुक्तयोस्तुल्याधिकरणत्वमस्तीति कर्मधारयो भवति । [तथेति] – “पूर्वकालैकसर्वजरत्सुराणनवकेवलाः समानाधिकरणेन" (अ० २।९।४९) इति न वक्तव्यम् । युक्तार्थत्वात् पूर्वेणैव समासस्यं सिद्धत्वात् तुल्याधिकरणत्वाच्चानेन कर्मधारयसंज्ञा इत्याह-तथैकाधिकरणत्वादिति । तत्र पूर्वकाले कृष्टमदीकृतः, छिन्नप्ररूढ इति । य एव पूर्वं कृष्टः स एव मदीकृतः । ततः कृष्टश्चासौ मदीकृतश्चेति विग्रहः । एवं छिन्नप्ररूढ इति ।एवं “दिक्संख्ये संज्ञायाम्" (अ०२।१।५०) इत्यपि न वक्तव्यम् । तथैव सिद्धत्वादित्युदाहरति ‘पूर्वेषुकामशमी' इति । पूर्वा चासौ