________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
प्राक् समासात् पदार्थानां निवृत्तिर्योत्यते नत्रा । स्वभावतो निवृत्तानां रूपाभेदादलक्षिता ॥
प्राधान्येनाश्रिता पूर्वं श्रुतेः सामान्यवृत्तयः । विशेष एव प्रक्रान्ताः ब्राह्मणक्षत्रियादयः ॥ यथा गौरादिभिस्तेषामवच्छेदो विधीयते । असताप्यनभिव्यक्तं तादर्थं व्यज्यते नञा ॥
२९५
( वा० प० ३ | १४ |२५२,२६१-६२) । असतापि नञा तादर्थ्यमसदर्थत्वं व्यज्यते इत्यर्थः । अथवा समुदाये जातिशब्दः प्रवृत्तोऽवयवेऽपि वर्तते । जातिहीने गुणहीने चेति । तत्र,
तपः श्रुतं च योनिश्च एतद् ब्राह्मणकारणम् । तपः श्रुताभ्यां यो हीनो जात्या ब्राह्मण एव सः ॥ (मभार० - अनु० १२१ । ७) ।
जात्यादिगुणसमुदायवाची ब्राह्मणशब्दः । तथा च पुराकल्पे ब्राह्मणस्य गुणाः = गौरः, शुद्धाचारः, पिङ्गलः, कपिलवेशः इति । जातिहीने सन्देहतो दुरुपदेशाच्च ब्राह्मणशब्दो वर्तते । कुतश्चिन्निमित्तादभावेऽवगते प्रयुङ्क्ते नायं ब्राह्मणः, अपि तु अब्राह्मण इति, ब्राह्मणजातिरहिते क्षत्रियादौ प्रत्ययः । अत्र ब्राह्मणस्तिष्ठति, तमानयेति । तत्र प्रदेशे यमेव पश्यति स एव ब्राह्मण इत्यवसाय स्वयमेवासाधारणं ब्राह्मणविरोधि कार्यं दृष्ट्वा निश्चिनोति - 'अब्राह्मणोऽयम्' इति । गुणहीने अब्राह्मणोऽयं यस्तिष्ठन् मूत्रयति गच्छन् भक्षयतीति । उक्तं च,
अनेकधर्मवचनैः शब्दैः संघाभिधायिभिः ।
एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥ ( वा० प०३ | १४ | २६६)
इति ब्राह्मणादिशब्दैस्तुल्यरूपाः केवलं परमार्थतः पुनरन्य एव । तत्रैकदेशवाचित्वं ब्राह्मणादिशब्दानां नञा द्योत्यते इति स्यात् परपदप्रधानता । अत्र पक्षे 'सर्वस्मै' इत्यन्यार्थे सर्वनामत्वम् । ‘अवर्षा हेमन्ते' इत्यादौ स्वभावाल्लिङ्गवचनानि इत्यवाच्यम् । वाक्यसमासवादोऽयम् । उक्तं च,