________________
२९४
कातन्त्रव्याकरणम्
जरती चेति अर्धजरती, तत्र भवम् अर्धजरतीयम् अभिधानादीयो दृश्यते । द्वितीयतृतीयचतुर्थतुर्याणां षष्ठीसमासोऽप्यभिधीयते इति पक्षान्तरं क्रमेणाह-द्वितीयेत्यादि । पूरणेनापि समासोऽभिधानाच्चतुरो यदीयौ च लोपश्च दृश्यते । तुरीयशब्देनापि समासोऽयमिति परसूत्रस्य न्यूनतां दर्शयति । परिमाणिना षष्ठ्यन्तेन परिमाणानां कालानां प्रथमान्तानां समास इष्यतेऽन्यैः स इह बहुव्रीहिणा सिद्ध इत्याह-मासजात इत्यादि । यस्य जातादेर्मासः परिमाणं तस्य मासो जातः सम्पन्न इत्यर्थः । अन्यथा मासः कथं परिमाणमिति नार्थो भिद्यते । अथ जातशब्दस्य क्तान्तत्वाद् बहुव्रीहौ पूर्वनिपातः स्यादिति जातो मासोऽस्य जातमासः ? नैवम्, जातिकालसुखा-दिभ्यस्तु क्तान्तस्य परनिपातः एवाभिधानात् । षष्ठीसमासोऽपि विशेषणानर्थक्यान्न भवति । यत्र व्यवछेद्यव्यवच्छेदकत्वं तत्र षष्ठीसमासः । यथा राजपुरुष इति । न चात्र मासपरिमाणिनो जातस्य मासं त्यक्त्वा परिमाणान्तरेण संबन्धो नापि समासः परिमाणिनं त्यक्त्वा मासस्य परिमाणस्यान्येन संबन्ध्यन्तरेण संभवति । स्वरूपानुवादकन्तु वाक्यमिहेति । अब्राह्मण इत्यादि, न च वक्तव्यम्
सतां न च निषेधोऽस्तु सोऽसत्सु च न वियते।
जगत्यनेन न्यायेन नर्थः प्रलयं गतः॥ नत्रयं पर्युदासवृत्तिः प्रसज्यप्रतिषेधवृत्तिश्च । तत्राद्ये पक्षे ब्राह्मणादन्योऽब्राह्मणत्वेनाध्यासितः । क्षत्रियादिः ब्राह्मणसदृश एवाब्राह्मण इत्युक्ते प्रतीयते, द्वितीये तु पक्षे नञा भ्रान्तिनिमित्तेन केनचित् क्षत्रियादौ ब्राह्मण इति प्रवृत्तस्य मिथ्याज्ञाननिवृत्तिः क्रियते ब्राह्मणोऽयं न भवति अब्राह्मण इति ब्राह्मणत्वेनाध्यासितो न स्यादित्यर्थः । तत्र सादृश्याद् ऋते मिथ्याज्ञानासम्भवात् प्रयोगसामर्थ्याच्च सदृशप्रतिपत्तिः, तद्गते च लिङ्गसंख्ये भवत इत्याह – 'नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः' इति । तदेवं पक्षद्वयेऽपि पूर्वार्थप्राधान्यम् । समासस्तु तनैव तुल्याधिकरणत्वाच्चायं कर्मधारयः । भिन्नाधिकरणे त्वव्ययीभावः स्याद् यस्य पुनरुत्तरपदार्थप्रधानस्तत्पुरुष इति दर्शनम् । न स नञ एवार्थः खल्वभावसमासार्थः इति प्रतिपद्यते । नात्र नञा परपदार्थस्य कीलप्रतिकीलन्यायेन निवृत्तिः क्रियतेऽशक्यत्वात् । यद्येतन्नञः सामर्थ्यं स्यात् तदा न कदाचिद् राजानो हस्त्यश्वादीन् बिभृयुः । न मे शत्रव इत्येवं ब्रूयुः । तस्मात् स्वाभाविकी निवृत्तिननिमित्तादुपलब्धिरिति । उक्तं च -