________________
नामचतुष्टयाप्याये पनमः समासपादः
२९३ परस्त्वाह-जरतीशब्देन समासवचनात् कथं युवजरन्निति भाष्ये चानुदाहृतत्वात् सन्देह इति। पदकारेण पुनरेतन्निश्चितमेव। "कृत्यतुल्याख्या अजात्या" (अ०२।१।६८) समस्यन्तेऽभिधानात्। भोज्योष्णम् इत्यादि। यद्यपि परार्थे प्रयुज्यमानाः शब्दाः सादृश्यं गमयन्ति तथापि तत्र नाभिधानम्। जात्या तु 'भोज्य ओदनः' इति वाक्यमेव । विशेषवर्णवाची वर्णविशेषवाचिना तेनैव समस्यत इति शुक्लावयवसम्बन्धात् समुदायोऽपि शुक्लः कृष्णावयवत्वात् कृष्णः शुक्लश्चासौ समुदायः कृष्णश्चेति विग्रहः। यदा (शुक्लगुणयोगात् ) शुक्लरूप उच्यते पुनः स एव शुक्लत्वेन विशिष्यते तदा शुक्लशुक्ल इति भवत्येव । अतिशयशुक्ल इत्यर्थः । कुमार्याः श्रमणादिभिस्तथैव समासः। श्रमणा प्रव्रजिता 'कुलटा,गर्भिणी, तापसी, बन्धकी, दासी' एतैः स्त्रीलिङ्गैः समस्यते। 'अध्यापक (अध्यायक)-अभिरूप-पटु मृदु-पण्डित-कुशल-चपल-निपुण' एतैरुभयलिङ्गा इयन्त एव रूढाः। चतुष्पाज्जातिवचनस्य गर्भिण्या तेनैव समासः। अजा चासौ गर्भिणी चेति अजगर्भिणी ।पुंवद्भावो भवत्येव ।अजातिवचनस्य नाभिधानम् ।काणाक्षी गर्भिणी चतुष्पादोऽन्यत्र ब्राह्मणी गर्भिणी | मयूरव्यंसकादीनां युक्तित एवं सिद्धिरित्याह-मयूर इवेत्यादि । उच्चावचादीनि च प्रकृत्यन्तराण्येव ।आचोपचादीनि पृषोदरादिषु द्रष्टव्यानि। आचितं चोपचितं चेति विगृह्य आचोपचम् इति निपातनम्। आचितं च पराचितं च आचपराचम् । निचितं च प्रचितं च निश्चप्रचम् एहिवाणिजादयोऽन्यपदार्थे इष्यन्ते । एवमर्शआदित्वात् सिध्यन्तीति । एहिवाणिजम् अत्रारतीति एहिवाणिजा किया। एवम् 'अपेहिवाणिजा, एहिस्वागता, अपेहिस्वागता' इत्यादयोऽप्यनुसतव्या इति।
एवं क्रियाद्वयेनापि - अश्नीत पिबतेति नियोगो यस्यां सा अश्नीतपिबत। क्रिया | एवं पचतभृज्जता खादतमोदता, हसतजल्पतेत्यादि । तथा च अश्नीतपिबतीयन्तीत्यादि ।] पूर्वापराधरोत्तराणामेकदेशवाचिना तुल्याधिकरणेन समासः इति अन्यो ब्रूते तदयुक्तमित्याह-पूर्वश्चासावित्यादि । समुदायवचनोऽयं कायशब्दः । पूर्वादयोऽप्येकदेशवचना वैयधिकरण्यात् कथं कर्मधारय इत्याह-कायेत्यादि । समुदाये प्रवृत्ताःशब्दा अवयवेऽपि वर्तन्ते । यथा तैलं भुक्तम्, घृतं भुक्तम्, शुक्लः, नील इति तैलायेकदेशे तैलादिशब्दस्तद्वदयमपीति भावः । तर्हि कायस्य पूर्वमिति कथन्न षष्ठीसमासः स्यात् ? सत्यम् । सापेक्षत्वात् कायस्य पूर्वं किं तदूर्ध्वमिति । अथ प्रधानस्य सापेक्षस्यापि समासो दृश्यते । अत्र च प्रधानं सापेक्षमिति चेत्, न । अत्राभिधानसामर्थ्यभस्त्यगमकत्वात् । समप्रविभागवृत्त्यर्थं नपुंसकं तथैव तुल्याधिकरणमित्याह - अर्धं च तदित्यादि । नपुंसकादन्यत्र ग्रामाझे नगरार्द्ध इत्येव यथा स्यादिति चेत् तदयुक्तम् इत्याह - असमेत्यादि ।अर्धश्चासौ