________________
२९२
कातन्त्रव्याकरणम्
हृतत्वात्। एवं गतं च तत् प्रत्यागतं चेति क्रियानुबन्धरूपत्वात् । यातं च तत् पूर्वम् अनुयातं च पश्चात्। अशितं च तदभ्यवहृतत्वाद् अनशितं च अशितकार्याकरणात् कुत्सिताद् वा। एवं क्लिष्टाक्लिशितम् इति । क़याक्रयिका इति। महान् यः स क्रयः, स्वल्पा च क्रयिका । क्रयावयवसंबन्धाच्च क्रयः क्रयिकावयवाच्च क्रयिका। क्रयश्चासौ समुदायः क्रयिका चेति विग्रहे हस्वस्य दीर्घता। एवं फलाफलिकेत्यादि! सत्पुरुष इत्यादि। पुरुषोत्तम इति । 'विशेषणं वा परम्' इति वाशब्देन पक्षद्वयं सूचयति - पुरुषेषूत्तम इति वा सप्तमीसमासः। ‘महाजनः, महोदधिः' इत्युत्तरपदस्य प्रमाणातिरेकिता तस्मात् "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः" (अ० २।१।६१) समस्यन्ते इत्यनर्थकम्। कथमुत्कृष्टो गौः, कर्दमाद् उद्धृत इत्यर्थः। ‘उत्कृष्टगवः' इति समासे पूज्यमानताया एवाभिधानात् प्रतीतिर्नोद्धृतत्वस्येति भावः। गोवृन्दारकादीनामप्यभिधानाद् विशेषणं परं भवति । वृन्दारकनागकुञ्जरैरुपमानतया पूजावचनैर्जातिवचनस्य समास इति नाद्रियते । वृन्दमस्यास्तीति वृन्दारकः। सुषीमो नाग इति | संज्ञायाम् असमास एवाभिधानात् ।
देवदत्तो नागोऽस्मान्मुख्यादिति सापेक्षत्वादसमासः, अभिधानात्। कतरकतमौ जातिपरिप्रश्नवृत्ती समस्येते। कतरो देवदत्तो भवतोः । कतमो देवदत्तो भवतामिति वाक्यमेव । कुत्सितो राजा किंराजा यो न रक्षति प्रजाः । “किं क्षेपे" (अ० २।१।६४) इति नाद्रियते! क्षेपादन्यत्र को राजा पाटलिपुत्रे, सापेक्षत्वादसमासः। ईषद्गुणवचनेन तेनैव समस्यते। ईषत्पिङ्गलस्तद्धिते समासान्तरे च फलम्। ईषपिङ्गलः, ईषत्पिङ्गलपुत्रः। उभयव्यज्जिका पोटा, इभ्या चासौ पोटा चेति इभ्यपोटेत्यादि । गृष्टिरेकवारप्रसूता धेनुः प्रत्यग्रप्रसवा | वशा बन्ध्या । वेहद् गर्भोपघातिनी। बष्कयणी तरुणवत्सा । पोटा युवतिः। “स्तोककतिपयगृष्टिवशावेहबष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तेर्जातिः” (अ० २।१।६५) समस्यते इति नाद्रियते। अजातिवचनस्य तु नीलोत्पलवत् समासः, धूर्तदेवदत्तः। प्रवक्तृदेवदत्तः । एवं दधिकतिपयादीनामपि अविशेषणस्यैव परत्वमभिधानादिति भावः। एवं जातिः प्रशंसावचनैश्च रूढिप्रकारैर्नियतलिङ्गसंख्याकैः प्रकाण्डमतल्लिकामचर्चिकादिभिः समस्यते इति । गौश्चासौ प्रकाण्डं चेति गोप्रकाण्डम् । प्रशस्ता गौश्चासौ प्रकाण्डं चेति गोप्रकाण्डम् । प्रशस्ता गौरुच्यते । एवं लिङ्गविशिष्टोऽपि युवा खलतिपलितवलिनजरद्भिः समस्यते पुंवद्भावश्च तुल्याधिकरणत्वात् ।